________________
यत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते ।
भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः ।।१६।। यत्नमिति । यत्नं = ताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् = स्वभावात् चेद्देशनादिकमिष्यते भगवतः, तदा भुक्त्यादिकं तथैव = यत्नं विनैव स्यात् । दृष्टबाधोभयोः पक्षयोः समा, भुक्तेरिव देशनाया अपि यत्नं विना क्वाऽप्यदर्शनात् । चेष्टाविशेषे यत्नहेतुत्वकल्पनस्य चोभयत्र साम्यात् ।
ननु प्रयत्नं विना चेष्टामात्रं न भवत्येव, देशना च भगवतामव्यापृतानामेव ध्वनिमयी सम्भवत्यक्षरमय्यामेव तस्यां यत्नजन्यत्वे(ने)च्छाजन्यत्वादिनियमाऽवधारणादिति न साम्यं । यदाह समन्तभद्रः- “अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ।।" ? (रत्नकरण्डकश्रावकाचार १/८) इति, मैवम्,
शब्दस्य शब्दान्तरपरिणामकल्पनस्य साजात्येन न्याय्यत्वेऽपि ध्वनेस्तत्कल्पनस्यातिशयतोऽप्यन्याय्यत्वात्, भगवद्देशनाया ध्वनिरूपत्वेऽपि वाग्योगापेक्षत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नाऽनुसरणध्रौव्यात् । अन्यथाऽपौरुषेयमागमं वदतो मीमांसकस्य दुर्जयत्वाऽऽपत्तेरिति न किञ्चिदेतत् ।
___ अथ सुहृद्भावेन पृच्छामः- बुद्धिपूर्वकप्रवृत्ताविच्छाया हेतुत्वात् कथं केवलिनो देशना३०/१६ || दावाहारादौ च प्रवृत्तिरिति चेत् ?, सुहृद्भावेन ब्रूमः-बुद्धिः खल्विष्टसाधनताधीरन्यस्या
५१०॥
का
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org