SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ 44AARI चित्रं पुनः श्रुतं हेतुः कर्माऽऽध्यात्मिकयोस्तयोः ॥१४॥ इन्द्रियेति । (५) (इन्द्रियोद्भवताध्रौव्यं =) इन्द्रियोद्भवताया ध्रौव्यं = आवश्यकत्वं बाह्ययोः - इन्द्रियार्थसम्बन्धाऽपेक्षयोर्विलक्षणयोरेव सुख-दुःखयोः आध्यात्मिकयोः तयोः = सुखदुःखयोः पुनश्चित्रं कर्म हेतुः श्रुतम् । क्वचिबहिरिन्द्रियव्यापाराऽभावेऽपि मनोमात्रव्यापारेण सदसच्चिन्ताभ्यामेव तयोरुत्पत्तेः । क्वचिच्च तस्याऽप्यभावे आध्यात्मिकदोषोपशमोद्रेकाभ्यामेव तदुत्पत्तेर्दर्शनाद्भगवत्यपि द्विविधवेदनीयोदयध्रौव्ये तयोः सुवचत्वादिति । वस्तुतो बाह्ययोरपि सुखदुःखयोरिष्टाऽनिष्टाऽर्थशरीरसम्पर्कमात्र प्रयोजकम्, न तु बहिरिन्द्रियज्ञानमपीति भगवति तृणस्पर्शादिपरीषहाभिधानं साम्प्रदायिक सङ्गच्छत इति न किञ्चिदेतत् ।।१४।। __आहारादिप्रवृत्तिश्च मोहजन्या यदीष्यते । देशनादिप्रवृत्त्याऽपि भवितव्यं तदा तथा ॥१५॥ ___ आहारादीति । (६) आहारादिप्रवृत्तिश्च यदि मोहजन्येष्यते भवता बुद्धिपूर्वकपरद्रव्यविषयकप्रवृत्तेर्मोहजन्यत्वनियमात्, तदा देशनादिप्रवृत्त्याऽपि भगवतः तथा = मोहजन्यत्वेन भवितव्यम् ।।१५।। ___ इच्छाऽभावाद् भगवतो नास्त्येव देशनाप्रवृत्तिः, स्वभावत एव च तेषां नियतदेशकाला देशना इतीष्टापत्तावाह (५०९।। का ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy