SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ग म म - ऽतिप्रसक्तत्वात्, तत्पूर्वकत्वं च यदीष्टसाधनताधीजन्यतावच्छेदकं तदाप्यबुद्धिपूर्वकप्रवृत्ते- ॥ र्जीवनयोनिभूताया इव भवोपग्राहिकर्मवशादुपपत्तेर्न कश्चिद्दोष इति । प्रवृत्तिसामान्ये तु योगानामेव हेतुत्वादिच्छापूर्वकत्वमार्थसमाजसिद्धमेव । यदवदाम - "परदवम्मि पवित्ती ण मोहजणिया व मोहजण्णा वा । जोगकया हु पवित्ती फलकंखा रागदोसकया ।।" (अध्यात्ममतपरीक्षा २२ ) || इत्यधिकमन्यत्र ।।१६।। भुक्त्या या सातवेद्यस्योदीरणापाद्यते त्वया । सापि देशनयाऽसातवेद्यस्यैतां तवाऽऽक्षिपेत् ।।१७।। ___ भुक्त्येति । (७) भुक्त्या = कवलाहारेण या सातवेद्यस्य = सातवेदनीयस्य उदीरणा त्वयापाद्यते, भुक्तिव्यापारेण सातोत्पत्तेः । सापि देशनयाऽसातवेद्यस्य एतां = उदीरणां त्वाक्षिपेत्, ततोऽपि परिश्रमदुःखसम्भवात् प्रयत्नजन्यत्वस्य तत्र व्यवस्थापितत्वादिति भावः ।१७।। सुहृद्भावेन समाधत्ते उदीरणाख्यं करणं प्रमादव्यङ्ग्यमत्र यत् । तस्य तत्त्वमजानानः खिद्यसे स्थूलया धिया ।।१८।। ॥ उदीरणाख्यमिति । (८) अत्र यत् उदीरणाख्यं करणं = यदान्तरशक्तिविशेषलक्षणं १८|| प्रमादव्यङ्ग्यं वर्तते, तस्य तत्त्वं = स्वरूपं अजानानः स्थूलया धिया = बहिर्योगमात्र- ॥ - - - - . 4न Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy