SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ts to वह कल dE to 25 15 ho do भु क्ति व्य स्था प न त्रिं शि का ३०/२० Jain Education International व्यापारगोचरया खिद्यसे त्वम् । योगव्यापारमात्रस्य तदाक्षेपकत्वे ततो मनोयोगेनाऽप्यप्रमत्ते सुखोदीरणप्रसङ्गात्, तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्याऽपि तथात्वप्रसङ्गात् । सुख्यहमित्यनुभवस्य चाऽप्रमत्तेऽप्यक्षतत्वादिति ॥ १८ ॥ आहारकथया हन्त प्रमादः प्रतिबन्धतः । तदभावे च नो भुक्त्या श्रूयते सुमुनेरपि ।।१९।। आहारकथयेति । ( ९ ) आहारकथया हन्त प्रतिबन्धतः = तथाविधाहारेच्छासंस्कारप्रवृद्धेः प्रमादो भवति, न त्वन्यथापि, अकथा - विकथानां विपरिणामस्य परिणामभेदेन व्यवस्थितत्वात् । तदभावे च = प्रतिबन्धाभावे च नो नैव भुक्त्या श्रूयते सुमुनेरपि उत्तमसाधोरपि प्रमादः, किं पुनर्भगवत इति भावः । बहिर्योगव्यापारमात्रोपरम एवाऽप्रमत्तत्वलाभ इति तु न युक्तं, आरब्धस्य तस्य तत्राऽसङ्गतया निष्ठाया अविरोधादिति ।। १९ ।। निद्रा नोत्पाद्यते भुक्त्या दर्शनावरणं विना । उत्पाद्यते न दण्डेन घटो मृत्पिण्डमन्तरा ॥ २० ॥ = निद्रेति । (१०) स्पष्टः ।। २० ।। रासनं च मतिज्ञानमाहारेण भवेद्यदि । For Private & Personal Use Only ।।५१२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy