________________
ts to वह कल dE to 25 15 ho do
भु
क्ति
व्य
स्था
प
न
त्रिं
शि
का
३०/२०
Jain Education International
व्यापारगोचरया खिद्यसे त्वम् । योगव्यापारमात्रस्य तदाक्षेपकत्वे ततो मनोयोगेनाऽप्यप्रमत्ते सुखोदीरणप्रसङ्गात्, तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्याऽपि तथात्वप्रसङ्गात् । सुख्यहमित्यनुभवस्य चाऽप्रमत्तेऽप्यक्षतत्वादिति ॥ १८ ॥
आहारकथया हन्त प्रमादः प्रतिबन्धतः ।
तदभावे च नो भुक्त्या श्रूयते सुमुनेरपि ।।१९।।
आहारकथयेति । ( ९ ) आहारकथया हन्त प्रतिबन्धतः = तथाविधाहारेच्छासंस्कारप्रवृद्धेः प्रमादो भवति, न त्वन्यथापि, अकथा - विकथानां विपरिणामस्य परिणामभेदेन व्यवस्थितत्वात् । तदभावे च = प्रतिबन्धाभावे च नो नैव भुक्त्या श्रूयते सुमुनेरपि उत्तमसाधोरपि प्रमादः, किं पुनर्भगवत इति भावः ।
बहिर्योगव्यापारमात्रोपरम एवाऽप्रमत्तत्वलाभ इति तु न युक्तं, आरब्धस्य तस्य तत्राऽसङ्गतया निष्ठाया अविरोधादिति ।। १९ ।।
निद्रा नोत्पाद्यते भुक्त्या दर्शनावरणं विना ।
उत्पाद्यते न दण्डेन घटो मृत्पिण्डमन्तरा ॥ २० ॥
=
निद्रेति । (१०) स्पष्टः ।। २० ।।
रासनं च मतिज्ञानमाहारेण भवेद्यदि ।
For Private & Personal Use Only
।।५१२ ।।
www.jainelibrary.org