SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ अ थे शा नु ग्र ho do has to ह वि चा र द्वा त्रिं शि का १६/३० Jain Education International एव तथाऽन्यदप्यतीन्द्रियं वस्तु ततश्छद्मस्थेन निश्चीयत इति भावः || २६ ।। इत्थं स्पष्टता शाब्दे प्रोक्ता तत्र विचारणम् । माध्यस्थ्यनीतितो युक्तं व्यासोऽपि यददो जगौ ।। २७ ।। इत्थं हीति । इत्थं = उक्तदृष्टान्तेन हि शाब्दे ज्ञाने अस्पष्टता प्रोक्ता । तत्र = अस्पष्टे शाब्दज्ञाने माध्यस्थ्यनीतितो विचारणं युक्तं, तर्कस्य प्रमाणाऽनुग्राहकत्वात् तेनैवैदम्पर्यशुद्धेः । तस्याश्च स्पष्टताप्रायत्वात् । यद् = यस्माद् अदो = वक्ष्यमाणं व्यासोऽपि जगौ ||२७|| आर्षं धर्मोपदेशं च वेदशास्त्राऽविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः || २८ ॥ शास्त्रादाचरणं सम्यक् स्याद्वादन्यायसंगतम् । ईशस्याऽनुग्रहस्तस्माद्दृष्टेष्टाऽर्थाऽविरोधिनः ।।२९।। यद्दातव्यं जिनैः सर्वैर्दत्तमेव तदेकदा । दर्शन - ज्ञान - चारित्रमयो मोक्षपथः सताम् ॥ ३० ॥ जिनेभ्यो याचमानोऽन्यं लब्धं 'बोधिमपालयन् । १. मुद्रितप्रतौ —... न्द्रियवस्तु' इति पाठः । २. हस्तादर्शे ' ...नीतिता' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'जगुः' इत्यशुद्धः पाठः । ४. ‘शास्त्रादौ' इति मुद्रितप्रतावशुद्धः पाठः । ५. हस्तादर्शे 'सदा' इति पाठः । ६. मुद्रितप्रतौ सर्वत्र 'धर्मम...' इति पाठः । For Private & Personal Use Only ।। २९० । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy