________________
ल F
hhody
आत्मनां तत्स्वभावत्वे प्रधानस्याऽपि संस्थिते । ईश्वरस्याऽपि सन्यायाद्विशेषोऽधिकृतो भवेत्।। ।
- (योगबिन्दु ३०८,३०९,३१०,३१२) इति ।।२४।। विशेषविमर्श शास्त्र-तर्कयोर्द्वयोरुपयोगप्रस्थानमाह
अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति ।
तथैवाऽतीन्द्रियं वस्तु छद्मस्थस्याऽपि तत्त्वतः ।।२५।। अस्थानमिति । अस्थानं = अविषयः रूपं = नील-कृष्णादिलक्षणं अन्धस्य लोचनव्यापारविकलस्य यथा सन्निश्चयं = विशदाऽवलोकनं प्रति आश्रित्य, तथैव = उक्तन्यायेनैव अतीन्द्रियं वस्तु आत्मादिविशेषरूपं छद्मस्थस्य = अर्वाग्दृशः प्रमातुः अपि तत्त्वतः = परमार्थनीत्या ।।२५।।
हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । . अत्र तनिश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् ॥२६॥
हस्तेति । हस्तस्पर्शसमं = तद्वस्तूपलब्धिहेतुहस्तस्पर्शसदृशं शास्त्रं अतीन्द्रियाऽर्थगोचरम् । तत एव = शास्त्रादेव कथञ्चन = केनापि प्रकारेण अत्र = छद्मस्थे प्रमातरि तन्निश्चयोऽपि = अतीन्द्रियवस्तुनिर्णयोऽपि स्यात्, तथा = वर्धमानत्वादिविशेषेण चन्द्रोपरागवत् = चन्द्रराहु- ॥२८९ स्पर्शवत् । यथा शास्त्रात् सर्वविशेषाऽनिश्चयेऽपि चन्द्रोपरागः केनाऽपि विशेषेण निश्चीयत १. हस्तादर्श 'मंधस्या' इत्यशुद्धः पाठः । २. हस्तादर्श ....लोचनं' इति पाठः ।
१६/२६||
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org