SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ विमर्शस्त निष्प्रयोजन इति कालातीतमतं व्यवस्थितम । एतच्चाऽस्माकमपि विशेषविमर्शाऽक्षमस्य स्वाऽऽग्रहच्छेदाय सामान्ययोगप्रवृत्त्यर्थमनुमतम्, अन्यस्य तु निरभिनिवेशस्य शास्त्राऽनुसारेण विशेषविमर्शोऽपि भगवद्विशिष्टोपासनारूपतयाऽश्रद्धामलक्षालनेन तत्त्वज्ञानगर्भवैराग्यजीवातु भूतत्वाद् । विशिष्टनिर्जराहेतुरिति न सर्वथा तद्वैफल्यमित्यभिप्रायवानाह आस्थितं चैतदाचार्यस्त्याज्ये कुचितिकाग्रहे । शास्त्राऽनुसारिणस्तर्कान्नामभेदाऽनुपग्रहात् ।।२४।। आस्थितं चेति । एतच्च = कालातीतमतं आचार्यः = श्रीहरिभद्रसूरिभिः आस्थितं = अङ्गीकृतं, कुचितिकाग्रहे = कौटिल्याऽऽवेशे त्याज्ये = परिहार्ये कुचितिकात्यागार्थमित्यर्थः । शास्त्रानुसारिणः तर्कात् अर्थसिद्धौ सत्यामिति गम्यं, नामभेदस्य = संज्ञाविशेषस्य अनुपग्रहात् = अनभिनिवेशात् (=नामभेदानुपग्रहात्) । तत्त्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी, न तु धर्मवादेन विशेषविमर्शोऽपीति भावः । तदिदमुक्तं → साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः ।। विपश्चितां न युक्तोऽयमैदंपर्यप्रिया हि ते । यथोक्तास्तत्पुनश्चारु हन्ताऽत्राऽपि निरूप्यताम्।। उभयोः परिणामित्वं तथाऽभ्युपगमाद् ध्रुवम् । अनुग्रहात्प्रवृत्तेश्च तथाऽद्धाभेदतः स्थितम् ।। १. मुद्रितप्रतौ ‘जीवानुभू' इत्यशुद्धः पाठः । २. हस्तादर्श · चितविग्रहे' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'अनुग्रहाप्र....' ।।२८८ १६/२४ इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy