________________
ल FRhodo Fod
अस्याऽपि योऽपरो भेदश्चित्रोपाधिस्तथा तथा ।
गीयतेऽतीतहेतुभ्यो धीमतां' सोऽप्यपार्थकः ॥२२॥ ___ अस्याऽपीति । अस्याऽपि = प्रधानस्याऽपि योऽपरो = भवकारणत्वात् सर्वाऽभ्युपगतादन्यो | भेदो = विशेषः चित्रोपाधिः नानारूपमूर्तत्वादिलक्षणः । तथा तथा = तत्तद्दर्शनभेदेन गीयते = वर्ण्यते, अतीतहेतुभ्यः = अनन्तरमेव “विशेषस्याऽपरिज्ञानात्" (द्वा द्वा.१६/ २०,पृ.२८५) इत्यादिश्लोकोक्तेभ्यः धीमतां = बुद्धिमतां सोऽपि, किं पुनर्देवतागत इत्यपिशब्दार्थः, अपार्थकः = अपगतपरमार्थप्रयोजनः; सर्वैरपि भवकारणत्वेन योगाऽप-नेयस्याऽस्योपगमादन्यस्य विशेषस्य सतोऽप्यकिञ्चित्करत्वात् ।।२२।। यत एवं
ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् ।
सामान्यमनुमानस्य यतश्च विषयो मतः ।।२३।। तत इति । ततः = सतो विशेषस्याऽपार्थकत्वाद्धेतोः अस्थानप्रयासोऽयं तत्त्वचिन्तकानां (यत्तभेदनिरूपणम्=) यत्तभेदस्य = देवादिविशेषस्य निरूपणं = गवेषणं, यतश्चाऽनुमानस्य देवताविशेषादिग्राहकत्वेनाऽभिमतस्य सामान्यं विषयो मतः ।
अतोऽपि सर्वविशेषाऽनुगतस्य तस्याऽप्रतीतेरस्थानप्रयासोऽयम् ।।२३।।
इत्थं च भवकारणमात्रज्ञानात्तदपनयनार्थं गुणवत्पुरुषविशेषाऽऽराधनं कर्तव्यं, विशेष१. हस्तादर्श 'बाधित' इति पाठः । २. मुद्रितप्रतौ 'बुद्धिमतां' पदं नास्ति । ३. हस्तादर्श 'यतस्य' इत्यशुद्धः पाठः।
का
||२८७॥
१६/२३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org