________________
व
to b) F
पु
रु
ष
का
र
how to pro
द्वा
शि
का
१७/२
Jain Education International
तं विह्वलो विना भाग्यं केन मूल्येन' लप्स्यसे' ? ।। ३१ ।। अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम् ।।३२।। आर्षमित्यारभ्य स्पष्टम् ।।२७-३२।।
।। इतीशाऽनुग्रहविचारद्वात्रिंशिका ।। १६ ।।
।। अथ दैवपुरुषकारद्वात्रिंशिका ।।१७।।
महेश्वराऽनुग्रहादेव योगसिद्धिरिति मतं निरस्य 'दैवादेवेयं पुरुषकारादेव 'वेयमित्येकान्तमतनिरासायोपक्रमते
दैवं पुरुषकारश्च तुल्यौ द्वावपि तत्त्वतः ।
निश्चय - व्यवहाराभ्यामत्र कुर्मो विचारणाम् ॥ १ ॥
दैवमिति । स्पष्टः ।। १ ।।
दैवं पुरुषकारश्च' स्वकर्मोद्यम संज्ञौ ।
निश्चयेनाऽनयोः सिद्धिरन्योऽन्यनिरपेक्षयोः ||२||
१. हस्तादर्शे 'मूल्यन' इत्यशुद्धः पाठः । २ मुद्रितप्रती 'लप्स्यते' इति पाठः । ३. हस्तादर्शे 'चेय' मित्यशुद्धः पाठः । ४. हस्तादर्शे '...रस्य' इत्यशुद्धः पाठः । ५. हस्तादर्शे '...द्यकासं...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। २९१ ।।
www.jainelibrary.org