SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 4 व 89 bf ho do to 5 पु रु ष का र द्वा त्रिं शि का १७/४ Jain Education International दैवमिति । दैवं स्वकर्मसंज्ञकं, पुरषकारश्च स्वोद्यमसंज्ञकः । निश्चयेन = अनयोः द्वयोः प्रत्येकं स्वकार्यजनने अन्योऽन्यनिरपेक्षयोः सिद्धिः || २ ॥ अत्रैव युक्तिमा सापेक्षमसमर्थं हीत्यतो' यद् व्यापृतं यदा । तदा तदेव हेतुः स्यादन्यत्सदपि नाऽऽदृतम् ॥ ३॥ सापेक्षमिति । 'सापेक्षं 'समर्थ' इत्यतो न्यायात् दैव- पुरुषकारयोर्मध्ये यत् यदा व्यापृतं, तदा तदेव अधिकृतकार्ये हेतुः स्यात् कुर्वद्रूपस्यैव कारणत्वात् । अन्यत् सदपि नाऽदृतं = नाऽभ्युपगतं अनेन, असदविशेषात् । वस्तुतोऽर्थक्रियाकारित्वमेव वस्तुनो लक्षणमिति तद्विरहादसदेवाऽन्यदित्यप्यर्थः ||३|| विशिष्य कार्यहेतुत्वं द्वयोरित्यनपेक्षयोः । निश्चयनयेन अवर्ज्यसन्निधि त्वन्यद' न्यथासिद्धिमञ्चति ।।४ ॥ विशिष्येति । इति = एवं अनपेक्षयोर्द्वयोः = दैव- पुरुषकारयोः विशिष्य तत्तद्व्यक्तौ कार्यहेतुत्वम् । अन्यत्तु अवर्ज्यसन्निधि = अवर्जनीयसन्निधिकं सत् पटादौ कार्ये दैवागतरासभवद् अन्यथासिद्धिं अञ्चति प्राप्नोति । इत्थं च व्यवहारवादिनाऽन्यथासिद्धत्वादपि अन्यस्य = I १. हस्तादर्श 'हि ततो' इति पाठः । परं व्याख्यानुसारेणाऽशुद्धः । २ हस्तादर्शे 'तदैव' इति पाठः । ३. हस्तादर्शे ' हीयम ...' इत्यशुद्धः पाठः । ४. 'तदा' नास्ति । ५. हस्तादर्शे न्यदथा...' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।२९२ । www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy