________________
।। कारणत्वं दुर्वचमिति भावः ।।४।।
अन्वय-व्यतिरेकाभ्यां व्यवहारस्तु मन्यते ।
द्वयोः सर्वत्र हेतुत्वं गौण-मुख्यत्वशालिनोः ॥५॥ अन्वयेति । व्यवहारस्तु = व्यवहारनयस्तु अन्वय-व्यतिरेकाभ्यां द्वयोः = दैवपुरुषकारयोः सर्वत्र कार्ये हेतुत्वं मन्यते गौण-मुख्यत्वशालिनोः । क्वचित्कार्ये हि किञ्चिद् गौणतयोपयुज्यते, किञ्चिच्च मुख्यतया। सामान्यतस्तु दैवं पुरुषकारं वा विना' न किञ्चित्कार्यं जायते इति सामान्यतः सर्वत्र हेतुत्वमनयोः ।
यस्तु कुर्वद्रूपत्वेन कारणत्वमिच्छन् सामान्यतः कारणतामेवाऽपलपति', तस्य घटाद्यर्थमरण्यस्थदण्डादौ प्रवृत्तिदुर्घटा, तस्या घटसाधनताज्ञानाऽधीनत्वात्', तस्य च घटोपधानात्प्रागसिद्धेः । ___'सादृश्यग्रहात्प्रागपि तत्र घटसाधनत्वधीः । अत एव न कार्यलिङ्गकोच्छेदः, अतज्जातीयातज्जातीयोत्पत्तिसम्भावनाऽभावादिति' चेत् ? न, तत्रापि वासनाविशेषस्य बीजत्वे तेनैव प्रवृत्त्याद्युपपत्तौ दृष्टकारणवैफल्यप्रसङ्गात्, प्रकृते बाधकाऽभावाच्चेत्यन्यत्र विस्तरः ।।५।।
अनुत्कटत्वं गौणत्वमुत्कटत्वं च मुख्यता ।
द्वयं प्रत्येकजन्यत्वव्यपदेशनियामकम् ।।६।। १७/६
१. हस्तादर्श 'विना' पदं नास्ति । २. प्राचीनमुद्रितप्रतौ ...मेवालपति' इत्यशुद्धः पाठः । ३. प्राचीनमुद्रितप्रतौ '...ज्ञाधीनत्वात्' इत्यशुद्धः पाठः ।
av bhboth
।।२९३।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org