________________
444
अनुत्कटत्वमिति । गौणत्वं = अनुत्कटत्वं, न त्वल्पत्वमेव, अल्पस्याऽपि बलीयसो गौणत्वाऽव्यपदेशात् । एवं मुख्यता चोत्कटत्वम् । ___ एतद् द्वयं प्रत्येकजन्यत्वव्यपदेशे नियामकं (=प्रत्येकजन्यत्वव्यपदेशनियामकम्), अन्यथा सर्वस्य कार्यस्योभयजन्यत्वात्प्रत्येकजन्यत्वव्यवहारोऽप्रामाणिक: स्यादिति भावः ।।६।। एतदेव भावयति
उत्कटेन हि दैवेन कृतं दैवकृतं विदुः ।
तादृशेन च यत्नेन कृतं यत्नकृतं जनाः ।।७।। 'उत्कटेन हीति । उत्कटेन हि देवेन कृतं कार्यं जना 'देवकृतं विदुः, तादृशेन | = उत्कटेन यत्नेन च कृतं यत्नकृतं एतदिति । इत्थं चोत्कटस्वकृतत्वज्ञानमनुत्कटाऽन्यकृतत्वज्ञानं | वा प्रत्येकजन्यत्वाऽभिलापप्रयोजकम् ।।
'दैवकृतमिदं न पुरुषकारकृतमि'त्यत्र चोत्कटपुरुषकारकृतत्वाऽभाव एव विषय इति | न कश्चिद्दोष इत्यर्थः ।।७।। विशेषदर्शिनो व्यवहारमुपपाद्याऽविशेषदर्शिनस्तमुपपादयति
अभिमानवशाद्वाऽयं भ्रमो विध्यादिगोचरः ।
निविष्टबुद्धिरेकत्र नाऽन्यद्विषयमिच्छति ॥८॥ 'अभिमाने'ति । यद्वाऽयं = 'दैवकृतमिदं न पुरुषकारकृतमि'त्यादिर्व्यवहारो विध्यादिगोचरो । १. हस्तादर्श 'उत्कटेन हीति' अयं पाठो नास्ति । २. मुद्रितप्रतौ 'दैवेकुतं' इत्यशुद्धः पाठः ।
भी 2
।।२९४।।
१७/८
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org