________________
।। = विधिनिषेधविषयो भ्रमो = विपर्यासः, अभिमानवशाद् = अहङ्कारदोषवशात्; यद्
= यस्माद् एकत्र निविष्टबुद्धिः = एकविषयोपरक्तग्रहणतीव्राऽभिलाषो नान्यद्विषयमिच्छति। इत्थं चैकधर्मोत्कटजिज्ञासयैवाऽपरधर्माऽग्रहस्तदभावग्रह श्चोपपद्यत इति भावः । विप्रपञ्चितोऽयमर्थ उपदेशपदप्रसिद्ध उपदेशरहस्येऽस्माभिः ।।८।। सापेक्षमसमर्थमिति दूषयितुमाह
यदीष्यते पराऽपेक्षा स्वोत्पत्ति-परिणामयोः।
तदा कार्येऽपि सा युक्ता न युक्तं दृष्टबाधनम् ।।९।। ___ यदीति। यदि स्वस्य = अधिकृतहेतोरुत्पत्तौ परिणामे च (= स्वोत्पत्ति-परिणामयोः) पराऽपेक्षा = स्वाऽतिरिक्तहेत्वपेक्षा "इष्यते, तदा कार्येऽपि जननीये सा = हेत्वन्तराऽपेक्षा युक्ता, न युक्तं दृष्टबाधनं = अनुभूयमानस्य सहकारिसमवधानेन कार्योत्पादकत्वस्याऽन्यथाकरणम् ।।९।। विशिष्येत्यादिनोक्तं दूषयति
विशिष्य कार्यहेतुत्वं कार्यभेदे भवेदपि ।
अन्यथा त्वन्यथासिद्धिरन्यत्राऽतिप्रसङ्गकृत् ।।१०।। विशिष्येति । विशिष्य कार्यहेतुत्वं च कार्यभेदे प्रामाणिके' सति भवेदपि, 'यथा
१. मुद्रितप्रतौ 'तदभावग्रह' इति पाठः त्रुटितः, नास्तीत्यर्थः । २. 'विपंचित' इति मुद्रितप्रतो । ३. हस्तादर्श १७/१०॥ मुद्रितप्रती चात्र 'तर्हि' इति पाठः । परं व्याख्यानुसारेणात्र 'तदा' इति पाठो युक्तः । ४. हस्ताद” 'इष्यते'
पदं नास्ति । ५. हस्तादर्श 'प्रामाणिक सति' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'तथा' इत्यशुद्धः पाठः ।
।।२९५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org