________________
aro bhsbs
विजातीये वह्नौ तृणादेर्विजातीये च तत्राऽरण्यादेरिति । अन्यथा = कार्यभेदाऽभावे तु एकेन हेतुनाऽपरहेतोः अन्यथासिद्धिः उच्यमाना अन्यत्र प्रकृताऽतिरिक्तस्थले अतिप्रसङ्गकृत् । शक्यं ह्येवं वक्तुं घटेऽपि दण्डो हेतुर्न चक्रमिति । 'न शक्यं, स्वतन्त्राऽन्वयव्यतिरेकदर्शनाद्, एकेनाऽपराऽन्यथासिद्ध्यभावादिति चेत् ? तुल्यमिदमन्यत्र ।।१०।। ____ अथ देवोत्कर्षेण फलोत्कर्षदर्शनात्तदेव फलहेतुर्न यत्न इत्याशङ्कायामाह
क्वचित्कर्मेव यत्नोऽपि व्यापारबहुलः क्वचित् ।
अन्ततः' प्राग्भवीयोऽपि द्वावित्यन्योऽन्यसंश्रयौ ॥११॥ क्वचिदिति। क्वचित् कार्ये कर्मेव यत्नोऽपि क्वचित् कार्ये व्यापारबहुलः । अन्ततः ऐहिकयत्नप्राचुर्याऽनुपलम्भे प्राग्भवीयोऽपि स व्यापारबहुल आवश्यकः, उत्कृष्टयत्नं विनोत्कृष्टऽदैवानुत्पत्तेः, इति = एवं फलविशेषोत्कर्षप्रयोजकोत्कर्षवत्तयापि द्वौ दैवपुरुषकारौ अन्योऽन्यसंश्रयौ = फलजनने परस्पराऽपेक्षौ । यत उक्तं"व्यापारमात्रात् फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तदैवं चित्रं ज्ञेयं हिताहितम् ।। एवं पुरुषकारस्तु व्यापारबहुलस्तथा । फलहेतुर्नियोगेन ज्ञेयो जन्मान्तरेऽपि हि ।। अन्योऽन्यसंश्रयावेवं द्वावप्येतौ विचक्षणैः । उक्तौ”।। (योगबिन्दु ३२२-२३-२४) इति ।।११।।
२९६ ।।
१७/११॥
१. मुद्रितप्रतौ 'अन्यतः' इत्यशुद्धः पाठः । २. हस्तादर्श 'द्वावप्य..' इति पाठान्तरम् । ३. हस्तादर्श 'यत्नेऽपि' इत्यशुद्धः पाठः। ४. 'वित्तं' इति मुद्रितप्रतावशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org