SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 5944 Ap कर्मैव ब्रुवते केचित् कालभेदात् फलप्रदम् । तन्नैहिकं यतो यत्नः कर्म तत्पौर्वदेहिकम् ।।१२।। कमैवेति । केचित् = साङ्ख्याः कर्मैव कर्म प्रधानाऽपरनामकं, एवकारेण पुरुषकारव्युदासः, कालभेदात् = तत्तत्कालसम्बन्धलक्षणविपाकात् फलप्रदं = तत्तत्कार्यकारि ब्रुवते । तदुक्तं“अन्यैस्तु कर्मैव केवलं कालभेदतः” (योगबिन्दु ३२४) इति । तन्न, 'यत ऐहिकं कर्म वाणिज्यराजसेवादि यत्न उच्यते, पौर्वदेहिकं = पूर्वदेहजनितं तद् वासनात्मना तथाविधपुद्गलग्रहणसम्बन्धेन वाऽवस्थितं कर्मोच्यते ।।१२।। भवान्तरीयं तत्कार्यं कुरुते नैहिकं विना । द्वारत्वेन च गौणत्वमुभयत्र न दुर्वचम् ।।१३।। ___ भवान्तरीयमिति । भवान्तरीयं पूर्वभवाऽर्जितं तत् = कर्म कार्यं धनप्राप्त्यादिकं ऐहिकं = वाणिज्यराजसेवादि कर्म विना न कुरुते । ___अतोऽन्वय-व्यतिरेकाऽविशेषात् पौर्वदेहिकस्येवैहिकस्याऽपि कर्मण: कार्यहेतुत्वमिति द्वयोरन्योऽन्यापेक्षत्वमेव । तदुक्तम्"देवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहाऽपरम् ।। नैतदात्मक्रियाऽभावे यतः स्वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः ।।" १. हस्तादर्श 'य ऐ' इत्यशुद्धः पाठः । २. योगबिन्दुप्रतौ अत्र 'नेदमात्म..' इति पाठो लभ्यत इत्यवधेयम् । ३. 'साधनमिति मुद्रितप्रतौ हस्तादर्श च पाठः । किन्तु योगबिन्दौ तद्वृत्तौ च साधकमिति पाठः । अतोऽस्माभिः स पाठो गृहीतः । का ॥२९७।। १७/१३ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy