________________
(योगबिन्दु ३२५-२६) इति । द्वारत्वेन = 'व्यापारत्वेन च गौणत्वं उच्यमानं उभयत्र = यत्ने कर्मणि च न दुर्वचम्, ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयकर्मणोऽपि प्राग्भवी ययत्नव्यापारत्वाऽविशेषादिति भावः ।।१३।।
अपेक्ष्ये कालभेदे च हेत्वैक्यं परिशिष्यते । __ दृष्टहानिरदृष्टस्य कल्पनं चाऽतिबाधकम् ॥१४।। अपेक्ष्य इति । केवलेन कर्मणा चित्रफलजनने कालभेदे चाऽपेक्ष्ये = अपेक्षणीये हेत्वैक्यं = कारणैक्यं परिशिष्यते । ____ तत्क्षणविशिष्टकार्यत्वाऽवच्छिन्ने तत्क्षणस्य हेतुत्वेनैवाऽनतिप्रसङ्गाद् देशनियमस्य च स्वभावत एवोपपत्तेः । किं च दृष्टहानिः = दृष्टानां कारणानां यत्नादीनां त्यागः, अदृष्टस्य च प्रधानस्य कल्पनं अतिबाधकं = अतिबाधाकारीति न किञ्चिदेतत् ।।१४।।
दृष्टेनैवोपपत्तौ च नाऽदृष्टमिति केचन ।।
फले विशेषात्तदसत्तुल्यसाधनयोर्द्वयोः ।।१५।। . दृष्टेनैवेति । दृष्टेनैव कारणसमाजेन उपपत्तौ जगद्व्यवस्थानिर्वाहलक्षणायां सत्यां च नादृष्टं = कर्म कल्पनीयं इति केचन = नास्तिकप्रायाः । ते हि वदन्ति 'विहित१. हस्तादर्श 'व्यापारत्वेन' इति पदं नास्ति । २. हस्तादर्श 'वीत्न' इत्यशुद्धः त्रुटितः पाठः । ३. हस्तादर्श 'केचि' इति पाठः ।
| ||२९८॥
का १७/१५॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org