SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ // तु' इत्यभ्युच्चये । अन्यद् = अधिकृतगुणस्थानकान्मिथ्यादृष्टित्वादेरपरमविरतसम्यग्दृष्ट्यादिकं गुणानां = ज्ञानादीनां स्थानं (= गुणस्थानं) मतं गुणान्तरस्य सर्वविरत्यादेर्निबन्धनम् (= गुणान्तरनिबन्धनम्) ।।११।। नन्वेवं 'गिहिणो वेयावडिअं न कुज्जा' (दशवैकालिक-चूलिका २/९) इत्याद्यागमविरोध इत्यत आह वैयावृत्त्ये गृहस्थानां निषेधः श्रूयते तु यः । स औत्सर्गिकता' बिभ्रन्नैतस्यार्थस्य बाधकः ॥१२॥ वैयावृत्त्य इति । गृहस्थानां वैयावृत्त्ये तु साधोः निषेधः यः श्रूयते, स औत्सर्गिकतां बिभ्रन्नैतस्य आपवादिकस्य अर्थस्य बाधकः । अपवादो ह्युत्सर्गं बाधते, न तूत्सर्गोऽपवादमिति ।।१२।। सूत्रान्तरं समाधत्ते ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि सङ्गतः । विहाय विषयो मृग्यो दशाभेदं विपश्चिता ।।१३।। ये त्विति । ये तु दानं प्रशंसन्तीत्यादिसूत्रेऽपि- 'जे या दाणं पसंसंति वहमिच्छंति पाणिणं । जे अ णं पडिसेहंति वित्तिच्छेअं करेंति ते ।। (सूत्रकृताड्ग १/११/२०) इति ।। ।।७।। १. हस्ताद” ....कतं..' इत्यशुद्धः पाठः । १. मुद्रितप्रतौ 'उ' इति पाठः । ३. हस्तादर्श 'करिति' इति पाठान्तरम् । मुद्रितप्रतौ च 'करंति' इति पाठान्तरम् । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy