________________
-
के
धर्माङ्गख्यापनार्थं च दानस्यापि महामतिः । अवस्थौचित्ययोगेन सर्वस्यैवानुकम्पया ।। ।। (अष्टक.२७/३) इति ।।९।। नन्वेवं साधोरप्येतदापत्तिरित्यत आह -
साधुनापि दशाभेदं प्राप्यैतदनुकम्पया ।
दत्तं ज्ञाताद् भगवतो रङ्कस्येव सुहस्तिना ॥१०॥ साधनापीति । साधनापि = महाव्रतधारिणापि दशाभेदं प्राप्य = पष्टालम्बनमाश्रित्य एतद् = दानं अनुकम्पया दत्तं, सुहस्तिनेव रङ्कस्य, तदाह- 'श्रूयते चागमे आर्यसुहस्त्याचार्यस्य रङ्कदानमिति । कुतः? इत्याह- "भगवतः श्रीवर्धमानस्वामिनो ज्ञातात् । तदुक्तं 'ज्ञापकं चात्र भगवान्निष्क्रान्तोऽपि द्विजन्मने। देवदूष्यं ददद्धीमाननुकम्पाविशेषतः ।।' (अष्टक २७/ ५) इति। प्रयोगश्चात्र - ‘दशाविशेषे यतेरसंयताय दानमदुष्टं, अनुकम्पानिमित्तत्वात्, भगवद्द्विजन्मदानवद्' इत्याहुः ।।१०।।
न चाधिकरणं ह्येतद्विशुद्धाशयतो मतम् । ___ अपि त्वन्यद्गुणस्थानं गुणान्तरनिबन्धनम् ।।११।। न चेति । न चैतत् = कारणिकं यतिदानं (हि) अधिकरणं मतं, अधिक्रियते ।।६।। आत्माऽनेनाऽसंयतसा-मर्थपोषणत इत्यधिकरणम् । कुतः ? इत्याह - विशुद्धाशयतः = अवस्थौचित्येनाशयविशुद्धेः, भावभेदेन कर्मभेदात् । अनर्थाऽसम्भवमुक्त्वाऽर्थप्राप्तिमप्याह- 'अपि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org