________________
Foto&to a
दा
न
द्वा
त्रिं
शि
का
१/१५
Jain Education International
सूत्रकृतसूत्रेऽपि दशाभेदं विहाय सङ्गतः = युक्तो विषयो विपश्चिता मृग्यः = ऐदम्पर्यशुद्ध्या विचारणीयः । न तु पदार्थमात्रे मूढतया भाव्यं, अपुष्टालम्बनविषयतयैवास्योपपादनात् । आह च- 'ये तु दानं प्रशंसन्तीत्यादि सूत्रं तु यत्स्मृतम् । अवस्थाभेदविषयं द्रष्टव्यं तन्महात्मभिः' ।। (अष्टक २७ / ७ ) इति ।। १३ ।। पुनः शङ्क
नन्वेवं पुण्यबन्धः स्यात्साधोर्न च स इष्यते ।
पुण्यबन्धान्यपीडाभ्यां छन्नं भुङ्क्ते यतो यतिः ।। १४ ।।
नन्विति । नन्वेवं = अपवादतोऽपि साधोरनुकम्पादानेऽभ्युपगम्यमाने पुण्यबन्धः स्यात्, अनुकम्पायाः सातबन्धहेतुत्वात् । न च स पुण्यबन्ध इष्यते साधोः । यतः = यस्माद् यतिः पुण्यबन्धान्यपीडाभ्यां 'हेतुभ्यां छन्नं भुङ्क्ते || १४ ||
एतदेव स्पष्टयति
दीनादिदाने पुण्यं स्यात्तददाने च पीडनम् ।
शक्तौ पीडाsप्रतीकारे शास्त्रार्थस्य च बाधनम् ।।१५।।
दीनादीति । प्रकटं भोजने दीनादीनां याचमानानां दाने ( = दीनादिदाने) पुण्यं स्यात्, न चानुकम्पावांस्तेषामदत्त्वा कदापि भोक्तुं शक्नोति', अतिधाष्टर्यमवलम्ब्य कथञ्चित् तेषामदाने च ( = तददाने च ) पीडनं स्यात् तेषां तदानीमप्रीतिरूपं शासनद्वेषात्परत्र १. मुद्रितप्रतौ ' हेतुभ्यां' पदं नास्ति । २. मुद्रितप्रतौ शक्तः' इति पाठः । ३. हस्तादर्शे 'दानं च' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
||८|
www.jainelibrary.org