SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ shor ।। च कुगतिसङ्गतिरूपम्। 'तदप्रीतिदानपरिणामाभावान्न दोषो भविष्यती' त्याशङ्क्याह-शक्ती सत्यां पीडायाः = परदुःखस्य अप्रतीकारे = अनुद्धारे च ( = पीडाऽप्रतीकारे च) शास्त्रार्थस्य = पराप्रीतिपरिहारप्रयत्नप्रतिपादनरूपस्य बाधनं, रागद्वेषयोरिव शक्तिनिगृहनस्यापि चारित्र| प्रतिपक्षत्वात् । प्रसिद्धोऽयमर्थः सप्तमाष्टके ।।१५।। किं च दानेन भोगाप्तिस्ततो भवपरम्परा । धर्माधर्मक्षयान्मुक्तिर्मुमुक्षोर्नेष्टमित्यदः ।।१६।। किं चेति । किं च दानेन हेतुना भोगाप्तिः भवति, ततो भवपरम्परा, मोहधारावृद्धेः । तथा 'धर्माधर्मयोः = पुण्यपापयोः क्षयान्मुक्तिः' (= धर्माधर्मक्षयान्मुक्तिः) इति हेतोः अदः II = अनुकम्पादानं मुमुक्षोर्नेष्टम् ।।१६।। सिद्धान्तयति नैवं यत्पुण्यबन्धोऽपि धर्महेतुः शुभोदयः । वढेर्दाह्यं विनाश्येव नश्वरत्वात्स्वतो मतः ।।१७।। नैवमिति। नैवं यथा प्रागुक्तः, यद् = यस्मात् पुण्यबन्धोऽपि शुभोदयः = सद्विपाको धर्महेतुर्मतः तद्धेतुभिरेव दशाविशेषेऽनुषङ्गतः पुण्यानुबन्धिपुण्यसम्भवात्, प्राणातिपातविरमणादौ तथाऽवधारणात् । न चायं मुक्तिप्रतिपन्थी', दाह्यं विनाश्य वहनेरिव तस्य पापं विनाश्य १. मुद्रितप्रतौ .र्थ स...' इत्यशुद्धः पाठः । २. हस्तादर्श 'क्षोर्न' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'नुषंगः ॥ पु'.... इत्यशुद्धः पाठः । ४. मुद्रितप्रती '...परिपन्थी...' इति पाठः । सोऽपि शुद्धः । ।।९।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy