________________
।। स्वतो नश्वरत्वात् = नाशशीलत्वात् । शास्त्रार्थाऽबाधेन निर्जराप्रतिबन्धपुण्यबन्धाभावान्नात्र || दोष इति गर्भार्थः ।।१७।।
भोगाप्तिरपि नैतस्मादभोगपरिणामतः ।
मन्त्रितं श्रद्धया पुंसां जलमप्यमृतायते ।।१८।। भोगाप्तिरिति । भोगाप्तिरपि नैतस्माद् = आपवादिकानुकम्पादानात्, अभोगपरिणामतः = भोगानुभवोपनायकाध्यवसायाभावात् । दृष्टान्तमाह- मंत्रितं जलमपि पुंसां श्रद्धया = भक्त्या अमृतायते = अमृतकार्यकारि भवति ।
एवं हि भोगहेतोरप्यत्राध्यवसायविशेषाद् भोगानुपनतिरुपपद्यत इति भावः ।।१८।। नन्विदं हरिभद्रसम्मत्या भवद्भिर्व्यवस्थाप्यते, तेनैव चाभिनिविश्योक्तमित्याशङ्क्याह
न च स्वदानपोषार्थमुक्तमेतदपेशलम्।
'हरिभद्रो ह्यदोऽभाणीद् यतः संविग्नपाक्षिकः ॥१९॥ न चेति । न च स्वदानस्य = स्वीयासंयतदानस्य पोषार्थं = समर्थनार्थं ( = स्वदानपोषार्थ) उक्तमेतद् अपेशलं = असुन्दरम् । यतः = यस्मात् संविग्नपाक्षिको हरिभद्रोऽदः = प्रागुक्तं हि = निश्चितं अभाणीत् । न हि संविग्नपाक्षिकोऽनृतं ब्रूते । तदुक्तं सप्तविंशतितमाष्टकविवरणे१. मुद्रितप्रतौ इदं पदं नास्ति । २. हस्तादर्श ...बन्धपुण्य..' इति पाठः । ३. हस्तप्रतौ 'हरिदो' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘णीद्योतः' इत्यशुद्धः पाठः । ५. हस्तादर्श ...भाणी' इत्यशुद्धः पाठः ।।
॥॥१०॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org