________________
जो
। 'स्वकीयासंयतदानसमर्थनागर्भार्थकमिदं प्रकरणं सूरिणा कृतमिति केचित्कल्पयन्ति, हरि
भद्राचार्यो हि भोजनकाले 'शङ्खवादनपूर्वकमर्थिभ्यो भोजनं दापितवानिति श्रूयते । न चैतत्सम्भाव्यते, संविग्नपाक्षिको ह्यसौ, न च संविग्नस्य तत्पाक्षिकस्य वाऽनागमिकार्थोपदेशः सम्भवति, तत्त्वहानिप्रसङ्गात् । आह च- “संविग्गोऽणुवएसं ण देइ दुब्भासिअं कडुविवागं। जाणतो तम्मि तहा अतहक्कारो उ मिच्छत्तं ॥” (पंचा.१२/१७) इति' (अष्टक २७/७ वृत्ति) ।।१९।।
भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः।
तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ॥२०॥ भक्तिस्त्विति । भक्तिस्तु स्वस्य सुपात्रतो भवनिस्तारवाञ्छा । आराध्यत्वेन ज्ञानं भक्तिः, आराधना च •गौरवितप्रीतिहेतुः क्रिया• 'गौरवितसेवा 'चेत्येतदपि फलतो नैतल्लक्षणमतिशेते। तया = भक्त्या सुपात्राय दत्तं बहुकर्मक्षये क्षमं = समर्थं भवति ।।२०।। तथाहि- पात्रदानचतुर्भङ्ग्यामाद्यः संशुद्ध इष्यते ।
द्वितीये भजना शेषावनिष्टफलदौ मतौ ॥२१॥ १. हस्तादर्श 'शंखवादिनःपू...' इत्यशुद्धः पाठः । २. संविग्नोऽनुपदेशं न ददाति दुर्भाषितं कटुविपाकम् । जानानस्तस्मिंस्तथाऽतथाकारस्तु मिथ्यात्वम् ।। ३. हस्तप्रतौ 'क्षमा' इत्यशुद्धः पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ४. हस्तादर्श ‘गौरववात..' इत्यशुद्धः पाठः । ५. हस्तादर्श ‘एत...' इति पाठः।
१/२१
।।११।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org