SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ जज । पात्रेति । पात्रदानविषयिणी या चतुर्भगी- संयताय शुद्धदानं, संयतायाशुद्धदानं, असंयताय शुद्धदानं, असंयतायाशुद्धदानं इत्यभिलापाः । तस्यां ( = पात्रदानचतुर्भङ्ग्यां) आद्यो भङ्गः सम्यग् = अतिशयेन शुद्ध (= संशुद्ध) इष्यते, निर्जराया एव जनकत्वात् । (द्वितीये = ) द्वितीयभङ्गे कालादिभेदेन 'फलभावाभावाभ्यां भजना विकल्पात्मिका । शेषौ = तृतीयचतुर्थभङ्गौ अनिष्टफलदौ एकान्तकर्मबन्धहेतुत्वान्मतौ ।।२१।। "शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् । सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति ।।२२।। शुद्धमिति । सुपात्राय = प्रतिहतप्रत्याख्यातपापकर्मणे शुद्धं अन्नादिकं दत्त्वा सानुबन्धस्य = पुण्यानुबन्धिनः शुभस्य = पुण्यस्यार्जनात् ( = सानुबन्धशुभार्जनात्) सानुबन्धं = अनुबन्धसहितं पापं न बध्नाति । बद्धं च पूर्वं पापं मुञ्चति = त्यजति । इत्थं च पापनिवृत्तौ प्रयाणभङ्गाप्रयोजकपुण्येन मोक्षसौलभ्यमावेदितं भवति ।।२२।। भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्यापि दानं हि द्वयोर्लाभाय नान्यथा ।।२३।। भवेदिति । पात्रविशेषे वा आगमाभिहितस्वरूपक्षपकादिरूपे, कारणे वा तथाविधे १. हस्तादर्श ‘असंयताय शुद्धदानं' इति पाठो नास्ति । २. मुद्रितप्रतौ ....पा त...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'फल' नास्ति । ४. हस्तादर्श 'शुद्ध' इत्यशुद्धः पाठः । ५. हस्तादर्श '...माचदितं' इत्यशुद्धः पाठः ।। ।।१२।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy