SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ।। = दुर्भिक्षदीर्घाध्वग्लानत्वादिरूपे आगाढे अशुद्धस्यापि दानं हि सुपात्राय द्वयोः = दातृगृहीत्रोः लाभाय भवेत्, दातुर्विवेकशुद्धान्तःकरणत्वात्, ग्रहीतुश्च गीतार्थादिपदवत्त्वात् । नान्यथा = पात्रविशेषस्य कारणविशेषस्य वा विरहे ।।२३।। नन्वेवं संयतायाशुद्धदाने फले द्वयोर्भवतु भजना, दातुर्बहुतरनिर्जराऽल्पतरपापकर्मबन्धभागित्वं तु भगवत्युक्तं कथम् ? अपवादादावपि भावशुद्ध्या फलाविशेषाद्-इत्यत आह अथवा यो गृही मुग्धो लुब्धकज्ञात'भावितः । तस्य' तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥२४॥ ___ अथवेति । अथवा पक्षान्तरे । यो गृही मुग्धः = अगृहीतदानशास्त्रार्थों लुब्धकज्ञातेन 'मृगेषु लुब्धकानामिव साधुषु श्राद्धानां यथाकथञ्चिदन्नाद्युपढौकनेनानुधावनमेवयुक्तमिति पार्श्वस्थप्रदर्शितेन भावितः = वासितः ( = लुब्धकज्ञातभावितः) तस्य तत = संयतायाशुद्धदानं तु' मुग्धत्वादेव (स्वल्पबन्धाय = ) स्वल्पपापबन्धाय (बहुनिर्जरणाय च = ) बहुकर्मनिर्जरणाय च भवति ।।२४।। इत्थमाशयवैचित्र्यादत्राल्पायुष्कहेतुता । युक्ता चाशुभदीर्घायुहेतुता सूत्रदर्शिता ।२५।। १. हस्तप्रती 'ज्ञाति...' इत्यशुद्धः पाठः । २. हस्तादर्श 'तस्यैत...' इति पाठः । ३. मुद्रतिप्रतौ 'असच्छास्त्रार्थ' इत्यशुद्धः पाठः । ४. हस्तादर्श 'मृगेषु' नास्ति । ५. हस्तादर्श 'तु' नास्ति । ।।।१३।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy