________________
___ इत्थमिति । इत्थं = अमुना प्रकारेण आशयवैचित्र्यात् = भावभेदात् अत्र = संयताशुद्धदाने अल्पायुष्कहेतुताऽशुभदीर्घायुहेतुता' च सूत्रदर्शिता = स्थानाङ्गायुक्ता युक्ता, मुग्धाभिनिविष्टयोरेतदुपपत्तेः, शुद्धदायकापेक्षयाऽशुद्धदायके मुग्धेऽल्पशुभायुर्बन्धसम्भवात्, क्षुल्लकभवग्रहणरूपाया अल्पतायाश्च सूत्रान्तरविरोधेनासम्भवादिति व्यक्तमदः स्थानाङ्गवृत्त्यादौ (सू.१२५) ।।२५।।
यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिगोचरं वदेत् ।
तेनात्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ? ॥२६॥ यस्त्विति । यस्तु आधाकर्मिकस्यैकान्तदुष्टत्वं मन्यमानः प्रकृतेऽर्थे प्रज्ञप्तिगोचरं = भगवतीविषयं उत्तरगुणाशुद्धं वदेत्, शक्यपरित्यागबीजादिसंसक्तान्नादिस्थलेऽप्यप्रासुकानेषणीयपदप्रवृत्तिदर्शनात् । तेन चैवं यूकापरिभवभयात् परिधानं परित्यजता अत्र = विषये सूत्रकृते भजनासूत्रं कथं द्रष्टम्? एवं हि तदनाचारसूत्रे श्रूयते
"अहागडाई(कम्माणि) जंति अन्नमन्ने सकम्मणा । उवलित्ते वियाणिज्जा अणुवलित्तेत्ति वा पुणो ।। (सूत्रकृताङ्ग द्वि.श्रु.५-८) ।
अत्र ह्याधाकर्मिकस्य फले भजनैव व्यक्तीकृता, 'अन्योऽन्यं' पदग्रहणेनार्थान्तरस्य कर्तुमशक्यत्वात, स्वरूपतोऽसावद्ये भजनाव्युत्पादनस्य "अनतिप्रयोजनत्वाच्चेति सक्षेपः ।।२६।। १. हस्ताद” '....तुतादी...' इति त्रुटितः पाठः । २. हस्तादर्श 'क्षुल्लकग्रहण...' इत्येवं त्रुटितः पाठः । ३. हस्तादर्श '...संसृक्त..' इत्यशुद्धः पाठः । ४. यथाकृतानि कर्माणि भुञ्जन्ति अन्योऽन्यं स्वकर्मणा । उपलिप्तान् विजानीयात् अनुपलिप्तानिति वा पुनः ।। ५. हस्तादर्श 'अतिप्र....' इत्यशुद्धः पाठः ।
।।१४।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org