SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नानुकम्पया ।।२७।। शुद्धं वेति । असंयताय यच्छुद्धं वाऽशुद्धं वा गुरुत्वबुद्ध्या प्रदीयते तद् असाधुषु | साधुसंज्ञया कर्मबन्धकृत् । न पुनः अनुकम्पया, अनुकम्पादानस्य क्वाप्यनिषिद्धत्वात्, 'अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धम्" (समरादित्यकथा-भव-३/पृ.१९४) इति वचनात् ।।२७।। दोषपोषकतां ज्ञात्वा तामुपेक्ष्य ददज्जनः। प्रज्वाल्य चन्दनं कुर्यात्कष्टामङगारजीविकाम ।।२८ ।। अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया । तत् त्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथापरः।।२९।। 'दोषेति- 'अत' इति-स्पष्टौ ।।२८।।२९।। एतेषां 'दानमेतत्स्थगुणानामनुमोदनात् । "औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ।।३०।। एतेषामिति । एतेषां = मुनि-श्राद्ध-सम्यग्दृशां दानं एतत्स्थानां = एतद्वृत्तीनां गुणानां १. अनुकम्पादानं पुनर्जिनैर्न कदापि प्रतिषिद्धम् । २. हस्तादर्श '...विताम्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'दानमेमे...' इत्यशुद्धः पाठः । ४. 'अचि...' इत्यशुद्धः पाठो हस्तप्रतौ। ५. हस्तादर्श 'शां दानं' इति नास्ति। ।।।॥१५॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy