________________
।। (= एतत्स्थगुणानां) अनुमोदनात्, तद्दानस्य तद्भक्तिपूर्वकत्वात्, औचित्यानतिवृत्त्या = स्वाचारानुल्लङ्घनेन च सर्वसम्पत्करं = ज्ञानपूर्वकत्वेन परम्परया महानन्दप्रदं मतम् ।।३०।।
शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते ।
कूपज्ञातेन स पुनर्नानिष्टो यतनावतः ॥३१॥ शुभयोगेऽपीति । पात्रदानबद्धबुद्धीनां साधर्मिकवात्सल्यादौ शुभयोगेऽपि = प्रशस्तव्यापारेऽपि यः कोऽपि द्रव्यतः दोषो जायते स (पुनः) कूपज्ञातेन = आगमप्रसिद्धकूपदृष्टान्तेन यतनावतः = यतनापरायणस्य नानिष्टः, स्वरूपतः सावद्यत्वेऽप्यनुबन्धतो निरवद्यत्वात् ।
तदिदमुक्तम् ‘जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला
अज्झत्थविसोहिजुत्तस्स ।। (ओ.नि.७५९, पिं.नि.६७१) अत्र हि अपवादपदप्रत्ययाया विराधनाया १/३१
व्याख्यानात् फलभेदौपयिको ज्ञान-पूर्वकत्वेन 'क्रियाया भेद एव लभ्यते ।।
यत्तु 'वर्जनाभिप्रायजन्यां निर्जरां प्रति जीवघातपरिणामाऽजन्यत्वेन जीवविराधनायाः प्रति-बन्धकाभावत्वेनैवात्र हेतुत्वमिति' कश्चिदाह साहसिकः तस्यापूर्वमेव व्याख्यानमपूर्वमेव चागमतर्ककौशलं, केवलायास्तस्याः प्रतिबन्धकत्वाभावात्, जीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे च विशेषणाऽभावप्रयुक्तस्य विशिष्टाभावस्य शुद्ध विशेष्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य १. हस्तादर्श '...पूर्वत्वादिति पाठान्तरम् । २. हस्तादर्श ‘महंमहा...' इत्यधिकोऽशुद्धश्च पाठः । ३. हस्तादर्श 'यतनीयत' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'दानवबु...' इति पाठः । ५. "क्रियाभेद' इति मुद्रितप्रतौ पाठः । सोऽपि शुद्धः ।
भर 4
।।।।१६।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org