________________
तस्य शुद्ध विशेषणरूपस्यापि सम्भवाज्जीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येत ।
अथ वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत् ? किमेतद् विराधनापदप्रवृत्तिनिमित्तं विशेषणं वा ? आद्ये 'प्रवृत्तिनिमित्तं 'नास्ति, पदं चोच्यते' इत्ययमुन्मत्तप्रलापः ।
अन्त्ये चोक्तदोषतादवस्थ्यमिति २शिष्यध्यन्धनमात्रमेतत् ।
अथ 'यद्धर्मविशिष्टं यद्वस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिरिति नियमाद 'वर्जनाऽभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामजन्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यते, इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वमक्षतमिति चेत् ?
न, प्रकृतविराधनाव्यक्तौ जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वात् । अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्य अपि तद्धानस्यानुपपत्तेः ।
स्यादेतत् वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमिति ? ___ मैवं, विशेषणविशेष्यभावे विनिगमनाविरहात्, अन्यथा दोषाभावविशिष्टबाधत्वेनैव दुष्टज्ञाने प्रतिबन्धकत्वप्रसङ्गात्, विशेष्याभावस्थलेऽतिप्रसङ्गाच्च । १. 'नास्तिपदं चोच्यत' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. हस्तादर्श 'शिष्यधंध...' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'लभते' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'तद्दान...' इत्यशुद्धः पाठः ।
१/३१
।।१७।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org