________________
तस्माद्वर्जनाभिप्रायस्यैव फलविशेषे निश्चयतो हेतुत्वम् ।
व्यवहारेण च तत्तद्व्यक्तीनां भावानुगतानां निमित्तत्वमिति साम्प्रतम् । विपञ्चितं । चेदमन्यत्रेति नेह विस्तरः ।।३१।।।
इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः ।
यथाशक्ति ददद्दानं परमानन्दभाग भवेत् ।।३।। इत्थमिति स्पष्टः ।।३२।।
।। इति दानद्वात्रिंशिका ।।१।।
॥ अथ देशनाद्वात्रिंशिका ॥२॥ आद्यायां द्वात्रिंशिकायां दानमुक्तं, तदन्तरायभीरुत्वं च मुख्यो गुणः, तच्च देशनाविवेकनिह्यमितीयमधुना विविच्यते
यथास्थानं गुणोत्पत्तेः सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी ॥१॥
।।।।१८।। यथास्थानमिति । सुवैद्येन भेषजमिव बालाद्यपेक्षया = बालाद्यानुगुण्येन देशना देया साधुनेति शेषः। किंभूता ? क्लेशनाशिनी = भावधातुसाम्येन दोषापहा । कुतः ? ||
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org