SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ इत्याह यथास्थानं = स्थानमनतिक्रम्य गुणोत्पत्तेः । यथाहि सदप्यौषधं तरुणादियोग्यं बालादीनां न गुणाय तथा धर्मदेशनाऽपि' मध्यमादियोग्या बालादीनां न गुणाय, इति यथास्थानमेतन्नियोगो' न्याय्यः ।।१।। विपक्षे बाधमाह उन्मार्गनयनात् पुंसामन्यथा वा कुशीलता । सन्मार्गद्रुमदाहाय वह्निज्वाला प्रसज्यते ॥२॥ उन्मार्गेति । अन्यथा = यथास्थानं देशनाया अदाने पुंसांध्यांध्यकरणद्वारेण उन्मार्गनयनात् वा कुशीलता प्रसज्यते । किम्भूता ? सन्मार्गद्रुमाणां दाहाय (=सन्मार्गद्रुमदाहाय) वहिलज्वाला, 'अनाभोगेनापि स्वतः परेषां मार्गभेदप्रसङ्गस्य प्रबलापायहेतुत्वादिति भावः ।।२।। नन्वेवं, 'न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ।।' इति वाचकवचनं (तत्त्वार्थकारिका-२९) व्याहन्येत। अतः खल्वनुग्रहधियाऽऽगमार्थोपदेशमात्रमेवेष्टसाधनतया प्रतीयते, श्रोतुर्भावस्तु दुर्ग्रहः- इत्याशङ्कायामाह अनुग्रहधिया वक्तुर्धर्मित्वं नियमेन यत् । भणितं तत्तु देशादिपुरुषादिविदं प्रति ।।३।। १. हस्तादर्श :...शनादि' इति पाठः । २. हस्तादर्श '...योग्या' इत्यशुद्धः पाठः । ३. हस्तादर्श '..च्च कु...' इत्यशुद्धः पाठः । ४. हस्तादर्श ‘प्रसद्यते' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भोगेना..' इत्यशुद्धः पाठः । ६. मुद्रितप्रतौ 'त्वेकाततो' इत्यशुद्धः पाठः । ||१९।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy