________________
। अनुग्रहेति । अनुग्रहधिया वक्तुः = धर्मोपदेष्टुः धर्मित्वं = निर्जराभागित्वं नियमेन | = एकान्तेन यद् भणितं, तत्तु (देशादि-पुरुषादिविदं=) देशादीन् पुरुषादींश्च वेत्ति यस्तं
प्रति, न तु तज्ज्ञाने शक्तिमस्फोरयन्तं प्रति' ।।३।। ___ ननु पुरुषादिभेदेन देशनाभेदो न युक्तः, राजरङ्कयोरेकरूपेणैव देशनाविधानात् । तथा च आचारसूत्रं- "जहा पुण्णस्स कत्थई • तहा तुच्छस्स कत्थई, जहा तुच्छस्स कत्थई तहा पुण्णस्स कत्थई' (आचारांग सू.१०१ पत्र १४५) त्ति । सूत्रोल्लङ्घनं च महतेऽनय इत्याशङ्क्याह
कोऽयं पुरुष इत्यादिवचनादत एव च ।
पर्षदादिविवेकाच्च व्यक्तो मन्दस्य निग्रहः ।।४।। कोऽयमिति। अत एव च = विपर्यये दोषादेव च 'कोऽयं पुरुषः ?' इत्यादिवचनात् नन्द्यावश्यकादौ (पर्षदादिविवेकात्=) पर्षदादीनां विवेकाद् = विवेचनात् च मन्दस्य = देशादिपुरुषादिज्ञानाभाववतो वक्तुः निग्रहः = अपसिद्धान्तलक्षणो व्यक्तः = प्रकट एव । अयं भावः - उक्ताचारसूत्रं साधोधर्मव्याख्याने निरीहतामात्रद्योतकमेव, राजादेरभिप्रायाननुसरणे प्रकटदोषोपद पदमेव 'तत्र पुरुषादि-देशादिपरिज्ञानवत्त्वेन देशनाधिकारित्वाभिव्यञ्जनात। १. मुद्रितप्रतौ 'प्रति' शब्दो नास्ति । २. हस्तादर्श 'रूप्ये...' इति पाठः । ३. मुद्रितप्रतौ सर्वत्र 'देशनाभिधानात्' इति पाठः । ४. मुद्रितप्रतौ ‘लंधनं' इत्यशुद्धः पाठः । ..... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ५. हस्तादर्श 'सूत्र' इति अशुद्धः पाठः ।
।।२०।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org