SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ tv F तदुक्तं - अवि य हणे अणाइयमाणे एत्थं पि जाण सेयं ति णत्थि केयं पुरिसे कं च णए त्ति' (आचाराड्ग २/६ सू.१०३)। किञ्चैवं पुरुषादिपरिज्ञानानावश्यकत्वे पर्षदादिगुणदोषोपवर्णनं तत्र तत्र व्यर्थं स्यादिति ।।४।। अज्ञातवाग्विवेकानां पण्डितत्वाभिमानिनाम् । विषं यद्वर्तते वाचि मुखे नाशीविषस्य तत् ।।५।। ___ अज्ञातेति । अज्ञातो वाग्विवेकः = शुद्धाशुद्ध-योग्यायोग्यविषयत्वादिरूपो यस्तेषां (=अज्ञातवाग्विवेकानां) पण्डितत्वाभिमानिनां वाचि = भाषायां विषं यद् मिथ्यात्वरूपं वर्तते तद् आशीविषस्य = व्यालस्य मुखे न, अनेकजन्मदुःखदं ह्येकमन्यच्चैकजन्मदुःखदमेवेति ।।५।। बालादीनां लक्षणमाह तत्र बालो रतो लिङ्गे वृत्तान्वेषी तु मध्यमः । पण्डितः सर्वयत्नेन शास्त्रतत्त्वं परीक्षते ॥६।। तत्रेति । तत्र = तेषु बालादिषु मध्ये लिङ्गे = लिङ्गमात्रे रतो बालः, लिङ्गमात्रप्राधान्यापेक्षयाऽसदारम्भत्वात् । वृत्तान्वेषी तु = वृत्तप्राधान्यापेक्षी तु मध्यमः, बालापेक्षया मध्यमाचारत्वात्। यस्तु १. अपि च हन्यादनाद्रियमाणेऽत्रापि जानीहि श्रेय इति नास्ति कोऽयं पुरुषः? कं च नतः ? २. हस्तादर्श 'अविग्रहणे' इत्यशुद्धः पाठः । मुद्रितप्रतौ 'अविग्गहणे' इत्यशुद्धः पाठः । ३. हस्तादर्श 'यस्तु सर्व' इति पाठो नास्ति । ।।२१।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy