________________
BE
।। सामान्ययोग्यतातः समुचितयोग्यतायाः प्राग् भेदसमर्थनात् । तेन कारणेन तदवच्छेदकत्वेन'
= योग्यतावच्छेदकत्वेन तस्य = शमादेः सङ्कोचो न योग्यताऽवच्छेदकत्वलक्षणः, योग्यताविशेषस्यैव अतिशयितशमादौ तद्द्वारा च मोक्षे हेतुत्वात् ।।६।। ननु शमादावपि संसारित्वेनैव हेतुतेति सर्वमुक्त्याक्षेप इत्यत आह
संसारित्वेन गुरुणा शमादौ च न हेतुता ।
भव्यत्वेनैव किं त्वेषेत्येतदन्यत्र दर्शितम् ।।७।। ___ संसारित्वेनेति । संसारित्वेन = नित्यज्ञानादिमद्भिन्नत्वरूपेण गुरुणा = नानापदार्थघटितेन शमादौ च हेतुता न तव कल्पयितुमुचितेति शेषः । किं तु भव्यत्वेनैव एषा - हेतूता, शमाद्यनगतकार्यजनकताऽवच्छेदकतयाऽऽत्मत्वव्याप्यजातिविशेषस्य कल्पयितुमचितत्वात् । द्रव्यात्वादावप्यनुगतकार्यस्यैव मानत्वात् । आत्मत्वेनैव शमादिहेतुत्वे विशेषसामग्र्यभावेनेश्वरेऽतिप्रसङ्गाऽभावे समर्थनीयेऽन्यत्राऽपि तेन तस्य 'सुवचत्वात् ।
भव्यत्वाऽभव्यत्वशङ्कयैव भव्यत्वनिश्चयेन प्रवृत्त्यप्रतिबन्धात् इति ।
एतद् अन्यत्र = न्यायालोकादौ दर्शितम् ।।७।। १. हस्तादर्श ...त्वेना' इति पाठः । स चाऽशुद्धः । २. हस्तादर्श 'शमावपि' इति त्रुटितोऽशुद्धश्च पाठः । ३. हस्तादर्श 'संसारित्वेनेति' इति नास्ति । ४. हस्तादर्श '...तानच्छेद....' इत्यशुद्धः पाठः । ५. हस्तादर्श 'सुवत्वात्' इति त्रुटितोऽशुद्धश्च पाठः ।
।।५२३।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org