________________
牙和酊仟何可
क्ति
द्वा
त्रिं
शि
का
३१/९
Jain Education International
परमात्मनि जीवात्मलयः सेति त्रिदण्डिनः ।
लयो लिङ्गव्ययोऽत्रेष्टो जीवनाशस्तु' नेष्यते ॥८॥
परमात्मनीति । परमात्मनि जीवात्मलयः सा मुक्तिः इति त्रिदण्डिनो वदन्ति । अत्र = एतन्मते लयो लिङ्गव्यय इष्टः अस्माकमप्यभिमतः । एकादशेन्द्रियाणि पञ्चमहाभूतानि च सूक्ष्ममात्रया सम्भूयाऽवस्थितानि जीवात्मनि सुख-दु:खाऽवच्छेदकानि लिङ्गशब्देनोच्यन्ते, तद्व्ययश्च परमार्थतो नामकर्मक्षय एवेति । जीवनाशस्तु नेष्यते, उपाधिशरीरनाशे औपाधिकजीव 'नाशस्याऽप्यकाम्यत्वात् ||८||
बौद्धास्त्वालयविज्ञानसन्ततिः सेत्यकीर्तयन् ।
विनाऽन्वयिनमाधारं तेषामेषा कदर्थना ।।९।।
स्त्विति । बास्तु आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानोपप्लवरहिता संहृतज्ञेयाऽऽकारा ज्ञानक्षणपरम्परा सा मुक्ति इत्यकीर्तयन् । यथोक्तं“चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।। " (महोपनिषद् - ४ / ६६) न च शरीरादिनिमित्ताऽभावे तदनुपपत्तिः, पूर्वपूर्वविशिष्टक्षणानामेव तद्धेतुत्वाद्, विशिष्टभावनात एव तेषां विसभागपरिक्षये प्रवृत्तेः । तेषा' मन्वयिनं
=
१. मुद्रितप्रतौ ' ... शश्च' इत्यशुद्धः पाठः । २. हस्तादर्शे ' ... मत्रे' इत्यशुद्धः पाठः । ३. हस्तादर्शे ' ...जीरोद्ध' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ‘संहत' इति पाठः । ५. मुद्रितप्रतौ '...भावनात्' इति पाठः । ६. हस्तादर्शे 'मत्वनं' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।५२४ ।।
www.jainelibrary.org