SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ 牙和酊仟何可 क्ति द्वा त्रिं शि का ३१/९ Jain Education International परमात्मनि जीवात्मलयः सेति त्रिदण्डिनः । लयो लिङ्गव्ययोऽत्रेष्टो जीवनाशस्तु' नेष्यते ॥८॥ परमात्मनीति । परमात्मनि जीवात्मलयः सा मुक्तिः इति त्रिदण्डिनो वदन्ति । अत्र = एतन्मते लयो लिङ्गव्यय इष्टः अस्माकमप्यभिमतः । एकादशेन्द्रियाणि पञ्चमहाभूतानि च सूक्ष्ममात्रया सम्भूयाऽवस्थितानि जीवात्मनि सुख-दु:खाऽवच्छेदकानि लिङ्गशब्देनोच्यन्ते, तद्व्ययश्च परमार्थतो नामकर्मक्षय एवेति । जीवनाशस्तु नेष्यते, उपाधिशरीरनाशे औपाधिकजीव 'नाशस्याऽप्यकाम्यत्वात् ||८|| बौद्धास्त्वालयविज्ञानसन्ततिः सेत्यकीर्तयन् । विनाऽन्वयिनमाधारं तेषामेषा कदर्थना ।।९।। स्त्विति । बास्तु आलयविज्ञानसन्ततिः प्रवृत्तिविज्ञानोपप्लवरहिता संहृतज्ञेयाऽऽकारा ज्ञानक्षणपरम्परा सा मुक्ति इत्यकीर्तयन् । यथोक्तं“चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।। " (महोपनिषद् - ४ / ६६) न च शरीरादिनिमित्ताऽभावे तदनुपपत्तिः, पूर्वपूर्वविशिष्टक्षणानामेव तद्धेतुत्वाद्, विशिष्टभावनात एव तेषां विसभागपरिक्षये प्रवृत्तेः । तेषा' मन्वयिनं = १. मुद्रितप्रतौ ' ... शश्च' इत्यशुद्धः पाठः । २. हस्तादर्शे ' ... मत्रे' इत्यशुद्धः पाठः । ३. हस्तादर्शे ' ...जीरोद्ध' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ ‘संहत' इति पाठः । ५. मुद्रितप्रतौ '...भावनात्' इति पाठः । ६. हस्तादर्शे 'मत्वनं' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।५२४ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy