SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ 149 dE has to क्ति द्वा शि का ३१/११ Jain Education International त्रिकालाऽनुगताऽऽत्मलक्षणम् आधारं विना एषा मुक्तिः कदर्थना, सन्तानस्याऽवास्तवत्वेन बद्ध-मुक्तव्यवस्थाऽनुपपत्तेः, सर्वथाऽभावीभूतस्य क्षणस्योत्तरसदृशक्षणजननाऽसामर्थ्यादिति ।।९।। विवर्तमानज्ञेयाऽर्थाऽपेक्षायां सति चाऽऽश्रये । अस्यां विजयतेऽस्माकं पर्यायनयदेशना । । १० ॥ = विवर्तमानेति । विवर्तमानाः प्रतिक्षणमन्यान्यपर्यायभाजो ये ज्ञेयार्थास्तदपेक्षायाम् (= विवर्तमानज्ञेयाऽर्थाऽपेक्षायां ) आश्रये च अन्वयिद्रव्यलक्षणे सति अस्यां = उक्तमुक्त अस्माकं पर्यायनयदेशना विजयते, 'प्रतिक्षिप्तद्रव्यस्य बौद्धसिद्धान्तस्य परमार्थतः पर्यायार्थिकनयाऽन्तःपातित्वात् । तदुक्तं सम्मतौ - “२ सुद्धोअणतणयस्स उ परिसुद्धा पज्जवविअप्पो” ( सं . त . ३ / ४८ ) ।।१०।। स्वातन्त्र्यं मुक्तिरित्यन्ये प्रभुता तन्मदः क्षयी । अथ कर्मनिवृत्तिश्चेत् सिद्धान्तोऽस्माकमेव सः ।।११।। स्वातन्त्र्यमिति । स्वातन्त्र्यं मुक्तिरित्यन्ये वदन्ति । = स्वातन्त्र्यं यदि प्रभुता तदा मदः, स च क्षयी | अथ चेत् कर्मनिवृत्तिः तदा अस्माकमेव स सिद्धान्तः ।। ११ ।। पुंसः स्वरूपाऽवस्थानं सेति साङ्ख्याः प्रचक्षते । १. कोबाप्रती प्रकृतिक्षि...' इति पाठ: । २. मुद्रितप्रतौ 'सुद्धो अणणयस्स' इत्यशुद्धः पाठः । तत् For Private & Personal Use Only ।।५२५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy