________________
। तेषामेतदसाध्यत्वं वज्रलेपोऽस्ति दूषणम् ।।१२।।
पुंस इति । पुंसः = पुरुषस्य स्वरूपाऽवस्थानं = प्रकृति-तद्विकारोपधानविलये चिन्मात्रप्रतिष्ठानं सा = मुक्तिः इति साङ्ख्याः प्रचक्षते । तेषां एतस्या मुक्तेः असाध्यत्वं (-एतदसाध्यत्वं) दूषणं वज्रलेपोऽस्ति, एकान्तनित्याऽऽत्मरूपायास्तस्या नित्यत्वात् । उपचरितसाध्यत्वस्याऽप्रयोजकत्वात् ।।१२।।
पूर्वचित्तनिवृत्तिः साऽग्रिमाऽनुत्पादसङ्गता ।
इत्यन्ये श्रयते तेषामनुत्पादो न साध्यताम् ।।१३।।
पूर्वेति । अग्रिमानुत्पादसङ्गता = अग्रिमचित्ताऽनुत्पादविशिष्टा पूर्वचित्तनिवृत्तिः सा ३१/१४
मुक्तिः इत्यन्ये । तेषामनुत्पादः साध्यतां न श्रयत' इति मुक्तेरपुरुषार्थत्वाऽऽपत्तिरेव दोषः ।।१३।।
साऽऽत्महानमिति प्राह चार्वाकस्तत्तु पाप्मने ।
तस्य हातुमशक्यत्वात्तदनुद्देशतस्तथा ॥१४॥ सेति । आत्महानं सा = मुक्ति इति चार्वाकः प्राहः । तत्तु वचनं श्रूयमाणमपि पाप्मने भवति । तस्य आत्मनो हातुमशक्यत्वात् असतो नित्यनिवृत्तत्वात्, सतश्च वीतरागजन्माऽदर्शनन्यायेन नित्यत्वात. सर्वथा हानाऽसिद्धेः । १. हस्तादर्श 'पूर्वश्चत्त..' इति पाठः । अर्थतः शुद्धोऽपि व्याख्यानुसारेण सोऽशुद्धः । २. हस्तादर्श 'श्रया' इत्यशुद्धः पाठः ।
५२६।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org