SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अ 5) he to phs its f शा नु ग्र ह वि चा र द्वा त्रिं शि का १६/२० Jain Education International 1 यद् = यस्मात् ऐश्वर्येण ज्ञानाद्यतिशयलक्षणेन समन्वितो = युक्तो वर्तते, तत् = तस्माद् ईश्वरः अस्मदुक्तः स एव मुक्तादिः स्यात् । संज्ञाभेदो = नामनानात्वम् अत्र = मुक्तादिप्रज्ञापनायां केवलम् ।। १८ ।। परकल्पितविशेषनिराकरणायाऽऽहअनादिशुद्ध इत्यादिर्यो भेदो यस्य कल्प्यते । = तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः । । १९ ॥ अनादीति । अनादिशुद्ध इति एवंरूप आदिर्यस्य स तथा ( = इत्यादिः) | तत्राऽनादिशुद्धः सर्वगतश्च शैवानाम् । सोऽर्हन्नसर्वगतश्च जैनानाम् । स एव प्रतिक्षणं भङ्गुरः सौगतानाम् । यः पुनः भेदो विशेषो यस्य = ईश्वरस्य कल्प्यते तस्य तस्य तन्त्रस्य = दर्शनस्य अनुसारेण = अनुवृत्त्या ( = तत्तत्तन्त्रानुसारेण ), मन्ये = प्रतिपद्ये सो विशेषः, किं पुनः प्रागभिहितः संज्ञाभेद इत्यपिशब्दार्थः, निरर्थको निष्प्रयोजनः । । १९ ।। कुत इत्याह = = २ विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ।।२०।। विशेषस्येति । विशेषस्य मुक्ता दिदेवताविशेषगतस्य अपरिज्ञानाद् अर्वाग्दर्शिप्रत्यक्षेण, १. हस्तादर्शे '...क्षणभं...' इति पाठान्तरम् । २ हस्तादर्शे 'विशेत्तस्यापिपरि' इत्यशुद्धः पाठः । ३. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र 'मुक्तादेर्देव...' इत्यशुद्धः पाठः । योगबिन्दुवृत्त्यनुसारेणात्र शुद्धः पाठो गृहीतोऽस्माभिः । ४. 'दर्शितप्र' इति मुद्रितप्रतौ पाठोऽशुद्धः । For Private & Personal Use Only ।।२८५ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy