________________
अ
थे
शा
ग्र
ho do has its s
ह
वि
चा
र
द्वा
त्रिं
शि
का
१६/१८
Jain Education International
माध्यस्थ्यमिति । माध्यस्थ्यं = अनिर्णीतविशेषकलहाऽभिनिवेशाऽभावलक्षणं अवलम्ब्यैव
देवतातिशयस्य च = विशिष्टदेवताऽऽख्यस्य च सेवा स्तवन- ध्यान- पूजनादिरूपा सर्वैर्बुधैः इष्टा = तन्निमित्तकफलाऽर्थत्वेनाऽभिमता । स्तवनादिक्रियायाः २ स्वकर्तृकायाः फलदानसमर्थत्वेऽपि स्तवनीयाद्यालम्बनत्वेन तस्याः स्तोत्रादेः फललाभस्य स्तोतव्यादिनिमित्तकत्वव्यवहारात् । यद् यस्मात् कालातीतोऽपि शास्त्रकृद्विशेषो जगौ । । १६ ।। अन्येषामप्ययं मार्गो मुक्ताऽविद्यादिवादिनाम् ।
अभिधानादिभेदेऽपि तत्त्वनीत्या व्यवस्थितः ।। १७ ।।
-
=
अन्येषामिति । अन्येषामपि तीर्थान्तरीयाणां किं पुनरस्माकं, अयं अस्मदुक्तो मार्गो देवतादिगोचरः । मुक्तादिवादिनां अविद्यादिवादिनां च ( = मुक्ताविद्यादिवादिनां ) मतेन । अभिधानादीनां = नामविशेषणादीनां भेदेऽपि ( = अभिधानादिभेदेऽपि ) तत्त्वनीत्या परमार्थत एकविषयतया व्यवस्थितः = प्रतिष्ठितः || १७ ।।
दैश्वर्येण समन्वितः ।
बुद्धोऽन्वाऽपि तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् ॥ १८ ॥
परब्रह्मवादिनां, बुद्धो बौद्धानां, अर्हन् जैनानां वाऽपीति समुच्चये, १. हस्तादर्श' ... लम्ब्यै दे' इत्युशुद्धः पाठः । २ मुद्रितप्रती 'क्रियाः' इत्यशुद्धः पाठः । ३. हस्तादर्शेषु '...दिभेदेन' इति पाठः । वृत्त्यनुसारेण च सोऽशुद्धः प्रतिभाति । ४. हस्तादर्श परमब्रह्म....' इति पाठान्तरम् ।
मुक्तइति ।
मुक्तः
=
For Private & Personal Use Only
।।२८४।
www.jainelibrary.org