________________
ल ल 5 te bhedo phus its s
शा
ग्र
ह
वि
चा
र
द्वा
त्रिं
शि
का १६/१६
Jain Education International
बहिर्व्यापाररोधेन जायमानं मतं हि नः ।।१४।।
प्रत्यगिति । अस्माद् = भगवज्जपात्' बहिर्व्यापाररोधेन = शब्दादिबहिरर्थग्रहत्यागेन अन्तर्ज्योतिःप्रथा = ज्ञानादिविशुद्धिविस्तारः तन्मयं ( = अन्तर्ज्योतिः प्रथामयं ) प्रत्यक्चैतन्यमपि हि जायमानं मतं नः = अस्माकं, तथैव भक्ति - श्रद्धाद्यतिशयोपपत्तेः ।। १४ ।। योगाऽतिशयतश्चाऽयं स्तोत्रकोटिगुणः स्मृतः ।
योगदृष्ट्या बुधैर्दृष्टो ध्यानविश्रामभूमिका ।। १५ ।।
= जपः
योगेति । योगाऽतिशयतश्च आत्माऽभ्यन्तरपरिणामोत्कर्षाच्च । अयं स्तोत्रकोटिगुणः स्मृतः चिरन्तनाऽऽचार्यैः, वाग्योगाऽपेक्षया मनोयोगस्याऽधिकत्वात् । अ एव मौनविशेषेणैव जपः प्रशस्यते । तथा बुधैः = विशारदैः योगदृष्ट्या = योगजप्रातिभज्ञानेन' ध्यानस्य विश्रामभूमिका ( = ध्यानविश्रामभूमिका) = पुनरारोहस्थानं दृष्टः ।। १५ ।। ननु परैर्यादृश ईश्वरोऽभ्युपगतस्तादृशस्य भवद्भिरनभ्युपगमात् कथमार्थव्यापारेणाऽपि तदनुग्रहसिद्धि-रित्याशङ्कायां विषयविशेषपक्षपातेनैव समाधानाऽभिप्रायवानाहमाध्यस्थ्यमवलम्ब्यैव देवताऽतिशयस्य च ।
=
सेवा सर्वेर्बुधैरिष्टा' कालातीतोऽपि यज्जगौ । । १६ ॥
१. हस्तादर्शे ‘...ज्जापात्' इति पाठः । २. हस्तादर्शे ...भज्ञाने' इत्यशुद्धः पाठः । ३. 'र्दृष्टा' इति हस्तादर्शादौ पाठ: । परं व्याख्यानुसारेणात्र 'रिष्टा' इति पाठः सम्यक् ।
For Private & Personal Use Only
।। २८३ ।।
www.jainelibrary.org