________________
विषयाऽऽवेशाद् = बाह्येन्द्रियाऽर्थव्याक्षेपलक्षणात् अखेदः = अनुपरमलक्षणः किलाऽविरति| भवेत् ।।११।।
भूम्यलाभः समाधीनां भुवोऽप्राप्तिः 'कुतोऽपि हि ।
लाभेऽपि तत्र चित्तस्याऽप्रतिष्ठा त्वनवस्थितिः ।।१२।। भूम्यलाभ इति । कुतोऽपि हेतोः (हि) समाधीनां भुवः = स्थानस्य अप्राप्तिः = भूम्यलाभः । लाभेऽपि = समाधिभूप्राप्तावपि तत्र = समाधिभुवि चित्तस्याऽप्रतिष्ठा = अनिवेशः त्वनवस्थितिः ।।१२।।
रजस्तमोमयादोषाद्विक्षेपाश्चेतसो ह्यमी ।
सोपक्रमा जपान्नाशं यान्ति शक्तिहतिं परे ।।१३।। रज इति । अमी हि रजस्तमोमयादोषाच्चेतसो विक्षेपाः = एकाग्रताविरोधिनः परिणामाः। सोपक्रमाः = अपवर्तनीयकर्मजनिताः सन्तः जपाद = भगवति प्रणिधानाद नाशं यान्ति ।
परे = निरुपक्रमाः शक्तिहतिं = दोषाऽनुबन्धशक्तिभङ्गं । उभयथाऽपि योगप्रतिबन्ध
सामर्थ्यमेषामपगच्छतीति भावः ।।१३।। १६/१३
प्रत्यक्चैतन्यमण्यस्मादन्तर्योतिःप्रथामयम् । १. मुद्रितप्रतौ 'कथंचन' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'प्रत्यक्च्चै...' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'प्रत्येक' इत्यशुद्धः पाठः।
||२८२।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org