________________
FRhodha
प्रत्यूहा व्याधयः 'स्त्यानं प्रमादाऽऽलस्य-'विम्भ्रमाः ।
सन्देहाऽविरती भूम्यलाभश्चाप्यनवस्थितिः ।।९।। प्रत्यूहा इति । 'व्याधि स्त्यान-संशय-प्रमादाऽऽलस्याऽविरति-भ्रान्तिदर्शनाऽलब्धभूमिकत्वा| ऽनवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः' (योगसूत्र १-३०) इति सूत्रम् ।।९।।
धातुवैषम्यजो व्याधिः स्त्यानं चाऽकर्मनिष्ठता ।
प्रमादोऽयत्न आलस्यमौदासीन्यं च हेतुषु ॥१०॥ धात्विति । धातुवैषम्यजो = धातूद्रेकादिजनितः व्याधिः ज्वराऽतिसारादिः । 'स्त्यानं चाऽकर्मनिष्ठता = आदित एव कर्माऽप्रारम्भः । प्रमादोऽयत्नः = आरब्धेऽप्यनुत्थानशीलता। आलस्यं च हेतुषु = समाधिसाधनेषु औदासीन्यं = माध्यस्थ्यं, न तु पक्षपातः ।।१०।।
विभ्रमो व्यत्ययज्ञानं सन्देहः स्यान्न वेत्ययम् ।
अखेदो विषयाऽऽवेशाद् भवेदविरतिः किल ॥११॥ विभ्रम इति । विभ्रमो = व्यत्ययज्ञानं, रजते रङ्गबुद्धिवत् इष्टसाधनेऽपि योगेऽनिष्टसाधनत्वनिश्चयः । सन्देहः = 'अयं योगः स्याद्वा न वे'ति आयाकारः । १. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थानमिति पाठः । अस्माभिः योगसूत्रानुसारेण पाठो गृहीतः । २. मुद्रितप्रती 'सम्भ्रमा' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ हस्तादर्श च सर्वत्र 'स्थानमिति पाठः । अस्माभिः योगसूत्रानुसारेण पाठो गृहीतः । ४. हस्तादर्श 'करिंभ' इत्यशुद्धः पाठः ।
(१।२८१।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org