SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 후 화 आर्थं व्यापारमाश्रित्य 'तदाज्ञापालनात्मकम् । युज्यते परमीशस्याऽनुग्रहस्तन्त्रनीतितः ।।७।। ___ आर्थमिति । आर्थं = ततः सामर्थ्यप्राप्तं, न तु प्रसह्य तेनैव कृतं, तदाज्ञापालनात्मकं व्यापारमाश्रित्य परं = केवलं तन्त्रनीतितः = अस्मत्सिद्धान्तनीत्या ईशस्याऽनुग्रहो युज्यते। तदुक्तं- “आर्थं व्यापारमाश्रित्य न च दोषोऽपि विद्यते” (योगबिन्दु २९८) इति ।।७।। एवं च प्रणवेनैतज्जपात् प्रत्यूहसङ्क्षयः । प्रत्यक्चैतन्यलाभश्चेत्युक्तं युक्तं पतञ्जलेः ।।८।। एवं चेति । एवं च = आर्थव्यापारेणेशाऽनुग्रहाऽऽदरे च प्रणवेन = ॐकारेण एतस्य = ईश्वरस्य जपात् (=एतज्जपात्) प्रत्यूहानां = विघ्नानां सङ्क्षयः(=प्रत्यूहसङ्क्षयः)। विषयप्रातिकूल्येनाऽन्तः-करणाऽभिमुखमञ्चति यत्तत् प्रत्यक्चैतन्यं = ज्ञानं, तस्य लाभश्च (=प्रत्यक्चैतन्यलाभश्च) इति पतञ्जलेरुक्तं युक्तम् ।। 'तस्य वाचकः प्रणवः, तज्जपस्तदर्थभावनं, ततः प्रत्यक्चेतनाऽधिगमोऽप्यन्तरायाऽभावश्च' (योगसूत्र १/२७-२८-२९) इति प्रसिद्धेः, गुणविशेषवतः पुरुषस्य प्रणिधानस्य महाफलत्वात् ।।८।। १. हस्तादर्श 'तदानापाल' इत्यशुद्धः पाठः । २. मुद्रितप्रती '...गमोऽन्त...' इति पाठः । परं योगसूत्रानुसारेणाऽत्राऽपेक्षितः पाठोऽस्माभिः योजितः । 서 적 파 ||२८०। 의 १६/८ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy