________________
उभयोस्तत्स्वभावत्वभेदे च परिणामिता ।
अत्युत्कर्षश्च धर्माणामन्यत्रातिप्रसञ्जकः ।।६।। __उभयोरिति । उभयोः = ईश्वराऽऽत्मनोः तत्स्वभावत्वभेदे च = व्यक्ति-कालफलादिभेदेन विचित्राऽनुग्राह्याऽनुग्राहकस्वभावभाजनत्वे च परिणामिता स्यात्, स्वभावभेदस्यैव परिणामभेदाऽर्थत्वात् । तथा चाऽपसिद्धान्तः । ___ज्ञानादिधर्माणामत्युत्कर्षेणेश्वरसिद्धिरित्यपि च नास्ति । यतो धर्माणामत्युत्कर्षः(च) साध्यमानो ज्ञानादाविवा अन्यत्र = अज्ञानादौ अतिप्रसञ्जकः = अनिष्टसिद्धिकृत्, अत्युत्कृष्टज्ञानादिमत्तयेश्वरस्येव तादृशाज्ञानादिमत्तया तत्प्रतिपक्षस्याऽपि सिद्ध्यापत्तेः । _____ इत्थं च 'ज्ञानत्वमुत्कर्षाऽपकर्षाऽनाश्रयवृत्ति, उत्कर्षाऽपकर्षाऽऽश्रयवृत्तित्वात्, महत्त्ववद्' इत्यत्र 'ज्ञानत्वं न तथा, चित्त धर्ममात्रवृत्तित्वात्, अज्ञानवदिति प्रतिरोधो द्रष्टव्यः ।
प्रकृति-पुरुषसंयोग-वियोगौ च यदि तात्त्विको तदाऽऽत्मनोऽपरिणामित्वं न स्यात, तयोढेिष्ठत्वेन तस्य जन्यधर्माऽनाश्रयत्वक्षतेः । नो चेत् ? कयोः कारणमीश्वरेच्छा ? ___किं च प्रयोजनाऽभावादपि नेश्वरो जगत् कुरुते । न च परमकारुणिकत्वाद् भूताऽनुग्रह एवाऽस्य प्रयोजनमिति भोजस्य वचनं साम्प्रतम, इत्थं हि सर्वस्याऽयमिष्टमेव सम्पादयेदित्यधिकं शास्त्रवार्तासमुच्चयविवरणे ।।६।। १. हस्तादर्श'....दिधर्ममामाव' इत्यशुद्धः पाठः। ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति। २. हस्तादर्श 'शस्त्रवा...' इत्यशुद्धः पाठः।
||२७९।।
१६/६
Jain Education International
For Private & Personal use only
www.jainelibrary.org