SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ का २७/२१ ऋजुः प्रज्ञापको भिक्षुर्विद्वान् विरत-तापसौ ॥२०॥ तीर्ण इति । तीर्णवत् तीर्णो विशुद्धसम्यग्दर्शनादिलाभाद् भवार्णवम् । तायः = सुदृष्टमार्गोक्तिस्तद्वान् = तायी । सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः । हिंसादिविरतत्वाद् व्रती । रागद्वेषरहितत्वाद् द्रव्यम् । क्षमा करोतीति क्षान्तः । • दाम्यतीन्द्रियाणीति दान्तः । मन्यते जगतस्रिकालाऽवस्थामिति मुनिः । उत्तमाऽऽश्रमी प्रयत्नवान् वा = यतिः । मायारहितः = ऋजुः । अपवर्गमार्गस्य प्ररूपकः = प्रज्ञापकः । भिक्षुः प्रागुक्तार्थः । विद्वान् = पण्डितः । विरतो = विषयसुखनिवृत्तः । तापसः = तपःप्रधानत्वात् ।।२०।। "बुद्धः प्रव्रजितो मुक्तोऽनगारश्चरकस्तथा । पाखण्डी ब्राह्मणश्चैव परिव्राजकसंयतौ ॥२१॥ बुद्ध इति । बुद्धो = अवगततत्त्वः । प्रव्रजितः = पापान्निष्क्रान्तः । मुक्तो = निर्लोभः । अनगारो = द्रव्यभावाऽगारशून्यः । तथा चरकः = प्रागुक्तार्थः । पाषण्डी = पाशाड् डीनः । ब्राह्मणश्चैव = विशुद्धब्रह्मचारी १. हस्तादर्श 'विधान' इत्यशुद्धः पाठः । २. हस्तादर्श 'स्वदृष्ट...' इति पाठः । २. हस्तादर्श 'द्रष्टम्' इत्यशुद्धः पाठः । ३. हस्तादर्श · न्द्रियादीनीति' इति पाठः । .....चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । ४. हस्तादर्श 'दविण' इति पाठः । ५. मुद्रितप्रतौ 'अ' नास्ति । ||४७६ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy