SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ।। चैव । परिव्राजकः = पापवर्जकः । संयतः = संयमवान् ।।२१।। साधुर्लक्षश्च तीरार्थी निर्ग्रन्थः श्रमणस्तथा । इत्यादीन्यभिधानानि गुणभाजां महात्मनाम् ।।२२।। साधुरिति । निर्वाणसाधकयोगसाधनात् साधुः। स्वजनादिषु स्नेहविरहाद् ऋ(लू)क्षश्च । तीरार्थी भवार्णवस्य । निर्ग्रन्थो ग्रन्थाभावात् । तथा श्रमणः श्रामण्ययोगात् इत्यादीनि अभिधानानि = नामानि गुणभाजां = गुणशालिनां महात्मनां = भावसाधूनाम् । तदुक्तं"तिने ताई दविए' वई अ खंते अ दन्त विरए अ। मुणि तावस पन्नवगुज्जु भिक्खु बुद्धे जइ विऊ अ ।। पब्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे य समणे निग्गन्थे संजए मुत्ते ।। साहू लूहे अ तहा तीरट्ठी होइ चेव णायब्वो । नामाणि एवमाइणि होंति तवसंजम२७/२३ | रयाणं ।।" (दशवैकालिकनियुक्ति १०/३४५-६-७) ।।२२।। संवेगो विषयत्यागः सुशीलानां च सङ्गतिः । ज्ञान-दर्शन-चारित्राऽऽराधना विनयस्तपः ॥२३॥ ___ संवेग इति । संवेगो = मोक्षसुखाऽभिलाषः। अयं च निर्वेदस्याऽप्युपलक्षणः । विषयत्यागो = भोगसाधनपरिहारः । सुशीलानां = साधूनां च सङ्गतिः । १. 'मातरहितो = मायारहित' इत्यर्थः । २. 'णाणासति = नानास्मृतिः' इत्यर्थः । ३. हस्तादर्श 'लक्षणं' इति लिङ्गव्यत्ययादशुद्धः पाठः । ४७७॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy