________________
ज्ञानं यथास्थितपदार्थपरिच्छेदनम्। 'दर्शनं नैसर्गिकादि ।
चारित्रं सामायिकादि। आराधना चरमकाले निर्यापणरूपा (=ज्ञान-दर्शन-चारित्रा| राऽऽधना)। विनयो = ज्ञानादिविषय उपचारः । तपो यथाशक्त्यनशनाद्यासेवनम् ।।२३।।
क्षान्तिर्दिवमृजुता तितिक्षा मुक्त्यदीनते ।
आवश्यकविशुद्धिश्च भिक्षोर्लिङ्गान्यकीर्तयन् ॥२४॥ क्षान्तिरिति । शान्तिः = आक्रोशादिश्रवणेऽपि क्रोधत्यागः । मार्दवं = जात्यादिभावेऽपि मानत्यागः । ऋजुता = परस्मिन्निकृतिपरेऽपि मायापरित्यागः । तितिक्षा = क्षुदादिपरीषहोपनिपातसहिष्णुता । मुक्तिः = धर्मोपकरणेऽप्यमूर्छा ।
अदीनता = अशनाद्यलाभेऽपि वैक्लव्याऽभावः । आवश्यकविशुद्धिश्च = अवश्यङ्करणीययोगनिरतिचारता । एतानि भिक्षोर्लिङ्गान्यकीर्तयन् गौतमादयो महर्षयः । तदुक्तं-"संवेगो णिब्वेओ विसयविवेगो सूसीलसंसग्गी ।
आराहणा तवो नाण-दंसण-चारित्त-विणओ अ ।।
खंती य मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी स होंति भिक्खुस्स लिंगाई।।”(दशवैकालिकनियुक्ति १०/३४८-३४९)।।२४।। ||४७८ ।।
एतद्गुणाऽन्वितो भिक्षुर्न भिन्नस्तु विपर्ययात् । १. हस्तादर्श 'दर्शने' इति त्रुटितोऽशुद्धश्च पाठः ।
२७/२४
॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org