________________
स्वर्णं कषादिशुद्धं चेयुक्तिस्वर्णं न तत्पुनः ।।२५।। 'एतदिति । एतद्गुणान्वितः = प्रागुक्ताऽखिलगुणसम्पन्नो भिक्षुः । भिन्नस्तु न, विपर्ययात्' = उक्तगुणाऽभावात् यतः कषादिशुद्धं स्वर्णगुणोपेतं चेत् भवति तदा स्वर्ण भवति । ते चामीविषघातनम्, वीर्यस्तम्भनकर्तृत्वम्, मङ्गलप्रयोजनत्वम्, यथेष्टकटकादिप्रकारसम्पादकत्वम्, तप्यमानस्य प्रादक्षिण्येनाऽऽवर्तनम्, सारोपेतत्वम्, अग्निनाऽदाह्यत्वम्, अकुथनीयत्वं च ।
युक्तिस्वर्णं = वर्णादिसाम्येन स्वर्णवदाभासमानं पुनस्तत् स्वर्णं न भवति, स्वर्णगुणाऽभावात् । तथा प्रकृतेऽपि भावनीयमिति ।।२५।।
षट्कायभिद्' गृहं कुर्याद् भुजीतौदेशिकं च यः ।
पिबेत् प्रत्यक्षमप्कायं स कथं भिक्खुरुच्यते ॥२६।। ___षट्कायेति । षट्कायभिद् यत्र क्वचन पृथिव्याधुपमर्दकः गृहं सम्भवत्येवैषणीयाऽऽलये मूर्च्छया वसतिं भाटकगृहं वा कुर्यात् । औदेशिकं च भुञ्जीत योऽपुष्टालम्बनः । प्रत्यक्षं उपलभ्यमान एव 'अकायं पिबेत् तत्त्वतो विनाऽऽलम्बनेन स कथं भिक्षुः = भावभिक्षुः उच्यते ?। तदुक्तं
का २७/२६
। ४७९।।
१. हस्तादर्श ‘एतणादिति' इत्यधिकोऽशुद्धश्च पाठः । २. हस्तादर्श 'विपर्ययाभावात्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'भिद् गृहं' इति पाठो नास्ति । ४. हस्तादर्श 'अपाकायं' इत्यशुद्धः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org