________________
॥
।। "उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पच्चक्खं च जलगयं जो पिबइ कहं || तु सो भिक्खू ।।” (दशवैकालिकनियुक्ति १०/३५७) ।।२६ ।।
गृहिणोऽपि सदारम्भा याचमाना ऋजु जनम् । दीनाऽन्धकृपणा ये च ते खलु द्रव्यभिक्षवः ।।२७।। त्रसस्थावरहन्तारो' नित्यमब्रह्मचारिणः । मिथ्यादृशः सञ्चयिनस्तथा सचित्तभोजिनः ॥२८ ।। विशुद्धतपसोऽभावादज्ञानध्वस्तशक्तयः ।
त्रिधा पापेषु निरता हन्त त्यक्तगृहा अपि ।।२९।। २७/३१
वर्धकिर्द्रव्यतो भिक्षुरुच्यते दारुभेदनात् । द्रव्यभिक्षणशीलत्वाद् ब्राह्मणादिश्च विश्रुतः ॥३०॥ प्रधानद्रव्यभिक्षुश्च शुद्धः संविग्नपाक्षिकः। सम्पूर्य प्रतिमां दीक्षां गृही यो वा ग्रहीष्यति ॥३१॥
||४८०॥
१. 'हन्तारा' इत्यशुद्धः पाठो मुद्रितप्रतौ । २. मुद्रितप्रतौ हस्तादर्श च 'प्रतिमादीक्षां' इत्यशुद्धः पाठः । संदर्भानुसारेणाऽपेक्षितः पाठो योजितः ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org