________________
+
केचिदुक्ता अनन्तेषु भावभिक्षोर्गुणाः पुनः ।
भाव्यमाना अपि' सम्यक् परमानन्दसम्पदे ।।३२।। शिष्टाः श्लोकाः षडुत्तानाऽर्थाः ।।२७-२८-२९-३०-३१-३२।।
॥ इति भिक्षुद्वात्रिंशिका ।।२७।।
2
)
॥ अथ दीक्षाद्वात्रिंशिका ॥२८॥ अनन्तरं भिक्षुरुक्तः । स च दीक्षासम्पन्नो भवतीति तत्स्वरूपमिहोच्यते -
दीक्षा हि श्रेयसो दानादशिवक्षपणात्तथा । ___ सा ज्ञानिनो नियोगेन ज्ञानिनिश्रावतोऽथवा ।।१।।
दीक्षा हीति । दीक्षा हि श्रेयसो दानात् तथाऽशिवक्षपणात् निरुच्यते । तदाह“श्रेयोदानादशिवक्षपणाच्च सतां 'मतेह दीक्षेति" (षोडशक ११/२) । सा निरुक्तार्थशालिनी दीक्षा नियोगेन = नियमेन ज्ञानिनो भवति ।
___अथवा ज्ञानिनिश्रावतो = गुरुपरतन्त्रस्य ।।१।। एतदेव भावयति१. मुद्रितप्रतो 'अमी' इति पाठः । २. हस्तादर्श ...संमदैः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'दीक्षा हीति' इति नास्ति । ४. हस्तादर्श ‘सतां ते' इति त्रुटितोऽशुद्धश्च पाठः ।
॥४८१।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org