SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ भिक्षामात्रेण वा भिक्षुर्यतमानो यतिर्भवेत् । भवक्षयाद् भवान्तश्च चरकः संयमं चरन् ॥१८॥ भिक्षेति । भिक्षामात्रेण वा = सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन भिक्षुः । यतमानो भावतस्तथा तथा गुणेषु यतिर्भवेत् । भवक्षयात् = संसारनाशाद् भवान्तश्च । संयम सप्तदशप्रकारं चरन् चरकः ।।१८।। क्षपकः क्षपयन् पापं तपस्वी च तपःश्रिया । भिक्षुशब्दनिरुक्तस्य भेदाः खल्वर्थतो ह्यमी ॥१९॥ क्षपक इति। पापं क्षपयन् क्षपको भण्यते । तपःश्रिया = तपोलक्ष्म्या च तपस्वी। | खलु अमी हि प्रासङ्गिका अपि अर्थतो भिक्षुशब्दनिरुक्तस्य भेदाः, तदर्थं प्रत्यव्यभिचारात् सर्वेषाम् । तदाह भिक्षुशब्दनिरुक्तद्वारे नियुक्तिकृत्- “भिंदतो अ जहक्खुहं भिक्खु जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो' अ ।। जं भिक्खमत्तवित्ती तेण य भिक्खु खवेइ जं खवणो । तवसंजमे तवस्सित्ति वावि अन्नो वि पज्जाओ ।।" (दशवैकालिकनियुक्ति १०/३४३-४) ।।१९।। तीर्णस्तायी व्रती द्रव्यं क्षान्तो दान्तो मुनिर्यतिः । ॥ १. मुद्रितप्रतौ 'तथा' पदं सकृदेव दृश्यते इति त्रुटितस्तत्र पाठः । २. मुद्रितप्रती 'भवंतो' पदं न दृश्यते । २७/१९ ||४७५।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy